________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९।
नित्याहिकप्रयोगः । मध्याह्ने समस्य कुर्यात् । आश्वलायनगृह्यपरिशिष्टे तथोक्तत्वात् । इति सायमोपासनवैश्वदेवादिप्रयोगः ॥ ___ सूतके मृतके चामन्त्रकं स्नानं, मनसा सन्ध्योपासनमयंप्रदानं दशवारं गायचीजपं च कुर्यात् । औपासनं ब्राह्मणहारा कर्तव्यम । अन्येषां स्मातकर्मणां त्यागः । “सतके कर्मणां त्यागः सन्ध्यादीनां विधीयत” इति कर्मप्रदीपवचनं तु वाचिकसन्ध्यानिषेधपरं ज्ञेयम् । “अहोरात्रस्य संयोगे सन्ध्यामुपास्त” इति छन्दोगषट्विंशब्राह्मणे चोदितत्वात् । अग्निहोचक्तछौनत्वान्न सन्ध्यायात्यागः । "तथा च 'पुलस्त्य':-स. ध्यामिष्टिं चरु हामं यावज्जीवं समाचरेत् । न त्यजेत्सतके वाऽपि त्यजन गच्छत्यधो दिजः । सूतके मृतके चैव सन्ध्याकर्म न सन्त्यजेत् । मनमोच्चारयेन्मन्त्रान्प्राणायाममृते दिजः” ॥ प्रसङ्गात्किंचित्सतकमुच्यते । “तत्र ‘पराशर':-तावत्तत्सतकं गोचे चतर्थपरुषेण त । दायाविच्छेदमाप्नोति पञ्चमो वाऽऽत्मवंशजः ॥ चतुर्थ दशराचं स्यात् षणिश: पुसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयम् ॥ भग्वग्निमरणे चैव देशान्तरमृतेऽथ वा । बालप्रेते च संन्यस्ते सद्यःशौचं विधीयते” । अग्निहोत्रस्य न त्यागः । “श्रौते कर्मणि नाशुचिः' इति श्रुतिः । स्मतिश्च-“शिल्पिनः कारवा वैद्या दास्यो दासास्तथैव च । राजानः श्रोत्रियाश्चैव सद्यः शौचं प्रकीर्तितम् ॥ सवतः शस्त्रपूतश्च आहिताग्निश्च यो हिजः । राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थवः ॥ ४ ॥ इति सतविचारः ॥
For Private And Personal