________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका ।
११ ऽन्तडाय चरुमभिघा-ग्नेरुत्तरत उद्दास्य दर्भेषु संस्थाप्य, प्रति ष्ठितं चर्स सुवेणाज्येन सपवित्रं प्रत्यभिघारयेत् । अग्निमुपसमाधाय पूर्वासदितैः कुशैः समन्तं परिस्तृणाति । पुरस्तादक्षिणत उत्तरतः पश्चात् । सर्वतस्विस्त पञ्चतं वा प्रागौर्बहुद:: परिस्तरेत् । पश्चादास्तृतदीयः पूर्वपरिस्तृतदर्भाणां मूलान्याच्छादयेत् । अवान्तर दिक्षु परिस्तृतदर्भाणां संयोगः । एष परिस्तरणन्यायस्सर्वेष्वाहुतिमत्सु नतु क्षिप्रहामेषु । अनेरुत्तरतः प्रोक्षणपर्युक्षणाद्यर्थं तोयपूर्ण स्वं प्रणीतामासादयेत् । नवाऽऽसादयेदित्येके ॥ ततः पूर्वासादितानष्टादशेधानादाय यु
प्रक्षिपेत् ॥ अथाज्यसंस्कारः ॥ श्राज्यं गव्यं माहिषमाज वा, तदभावे तैलं दधि क्षीरं यवागं वा, पूर्वपवाभावे उत्तरोत्तरं गृह्णीयात । आज्यवदेव तत्प्रतिनिधीनां संस्कारः । दो नाधिश्रयणं, यवाग्वास्तु विकल्पः । पर्वकते पिवचे गृहीत्वा, अाज्यस्थाल्यामुदगग्रे निधाय, तस्यामाज्यमवनीय, हस्तयोरङ्गुष्ठानामिकाभ्यां धृताभ्यामदगग्राभ्यां पविचाभ्यामाज्यं चिवारमत्पनाति प्राक्श: सकृन्मन्त्रेण हिस्तष्णीम। मन्त्रस्य प्रजापतिषियजुराज्यं देवताऽऽज्योत्पवने विनियोगः । देवस्त्वा मवितोत्पनात्वच्छिद्रेण पवित्रेण वसाः सूर्यस्य रश्मिभिः ॥ अविमुञ्चन्पवित्रेऽद्भिरभ्युक्ष्यामा प्रहरेत् । उत्पनमाज्यमग्नौ संस्थाप्याग्नेरुत्तरत उद्दासयेत् । अदृष्टार्थ पुनर ग्नेः पश्चादहिषि चरुं तत्पूर्वदेशे भाज्यस्थाली चासादयति। ततः सक्सवावादायोषणेन वारिणा प्रक्षाल्य प्रासंस्थं सम्मागंकुशैमूलादारभ्य तदनदेशाभिमुखं सम्मज्यामा प्रतितप्य जले
For Private And Personal