________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र. ६ का.]
ग्रह्यसूत्रम्।
इति । न च नित्यानित्यमयोगविरोधः शङ्खनीयः । अस्यापि नित्यत्वे प्रमाणाभावात् । न खलु शेषाणां प्रतिपत्तिरियमित्यम्या वर्णनायाम् अस्य नित्यत्वं शक्य तेवकुम्। न चाचान्यत् किमपि प्रमाणं पश्यामः । स्यादेतत् । अप्रकृतानामसंशब्दितानामसन्निहितानां कथं प्रतिपत्ति वर्ण्य ते ? । उच्यते। नात्यन्त मप्रकृता असन्निहिताश्चाक्षतमतवः । कथम् ? । इत्यम् । ये खल्वक्षतमको वर्षावहरहर्बलिहरणार्थं स्थापिता स्तैरेव आग्रहायणीपर्यन्तं बलयो हर्त्तव्याः, इति स्थितम्। एवञ्चात्येव तेषां कियन्मात्रमपि प्रकृतत्वं सन्निहितत्वञ्चाग्रहायण्या । तथाच मत्य किञ्चित्करमसंश ब्दितत्वम्। अपि च । अस्मिन् शास्त्रे “पानव्यापच्च तदत्”इत्यादिवत् व्यवहितस्याप्यभिसम्बन्धः प्राचार्य्यस्यानुमतः । कथं ज्ञायते ?। आचार्य्यपुत्रवचनात्। तथा च ग्टह्यासंग्रहः ।
“पुनरुक्तमतिक्रान्तं यच सिंहावलोकितम् ।
गोभिले ये न गृहन्ति न ते ज्ञास्यन्ति गौभिलम्'। इति । तस्मादसन्निहितानामप्यस्तु सम्बन्धः । तदत्र भवन्तो भूमिदेवाः प्रमाणम् ॥ ॥ ४ ॥०॥
___ उत्सृजेत् कृतार्थान् सम्भारान् ॥५॥ अर्थः प्रयोजनम् । तच्च धूमशातनलक्षणम्। कृतोऽर्थो यैः, तान् सम्भारान् दीदीन् उत्सृजेत्। अर्थात्प्राप्तस्यात्सर्गस्य वचनमानन्नार्थम् । कथं नाम?। धूमशातनानन्तरक्षण एवोत्सृजेत् न क्षणमपि ग्टहे धारयेत-इति ॥०॥ ५ ॥०॥
4
D
For Private and Personal Use Only