________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडपत्राणि ।
६ ५० पृष्ठे १८पंक्ती निवेश्यं । अत्र किञ्चिदतव्यमस्ति। सूत्रतन्तुनिधानचेदं-"एतदःपितरोवामः" -इति मन्त्रमुचार्य सूत्रितप्रकारेण करणीयम् । कथं ज्ञायते ? । पद्यमानमन्त्रकाण्डे अस्मिन्नवसरे मन्त्रस्य॑तस्य पठितत्वात् । सचेन्न विनियुज्येत, अनर्थकस्तस्य पाठः स्यात् । नचार्थवानाम्नायोऽनर्थक: कर्त्तव्यः। कथन्तस्मिन्नर्थ सूत्रं न दृश्यते ? । प्रत्येकमभिलापं सूत्रयितुं प्रवृत्तः खल्वयमाचा-विनियोग मन्त्रस्य न सूत्रयाञ्चकार । सकृद्धि त्रीन् पित्रादीनुद्दिश्य मन्त्रायं पठितव्योभवति । लिङ्गाक्षात्रैव कर्मणि विनियोग मन्त्रस्य सुज्ञानं मन्यते, इति। कथं पुनरवगम्यते चीन पित्रादीनुद्दिश्य मकदेव मन्त्रः पठितव्यदति । बहुवचनादित्याह । 'नमोवः पितरः'-इत्यादौ खल्वस्मिन् वाक्यप्रवाहे पित्रादिषु त्रिवेव बहुवचनान्तपिटपदप्रयोगादत्रापि तथैवावधार्यते । न खल्वस्यैव पूर्वस्मिन् परस्मिंश्च वाक्यप्रवाहे पित्रादित्रिके बहुवचनान्तपिपदस्य प्रयोगेऽवधते दहैवाकस्मादर्बुजरतीयन्यायेन एकैकस्मिन् पित्रादी तथाप्रयोगदति शक्यमवगन्तुम् । कारणाभावात् । तस्मात् सकृदेव मन्त्रपाठः, अभिलापस्तु प्रत्येकमिति सिद्धम् ।
७५७पृष्ठे १८ पंकी 'इत्यादिना'-इत्यतः परं निवेश्यं । "साक्षतं सुमनोयुक्त उदकं दधिमिश्रितम् । अध्य, दधिमधुभ्याञ्च मधुपर्काविधीयते । कांस्येनेवाईनीयस्य निनयेदर्थमञ्जलौ । कांस्यापिधानं कांस्यस्यं मधुपर्क निवेदयेत्”-दूति कर्मप्रदीपवचनेनच
For Private and Personal Use Only