________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोड़पत्राणि ।
४ ४ २ पृष्ठे ११पंनी निवेश्यं । वस्तुतस्तु गोदानादिवतएवोपनयने नियमायं न प्राचीनेप्युपनयने । तत्र विशेषस्थाभिधानात्। अतिक्रम्याभिधानाचास्य । सेायमुपनयतिः सन्निहितमेवोपनयनमभिधत्ते न प्राचीनमपि । व्यक्तिवचन: खल्वयं मन्निहितां व्यक्ति शक्नोति वदितुं, नत्वन्याम्। आग्नेयोन्यायात् । परतोवक्ष्यमाणानां धर्माणं यथा प्राचीनोपनयनगोचरत्वमपि, तथाऽभिहितमस्माभिः,-"वार्तञ्चास्मै दण्डं प्रयच्छन् वाचयति"-दूत्यत्र । परतश्चैतद्वक्ष्यामः ।
४८२ पृष्ठे ३ पती निवेश्यं । वस्तुतस्तु, अस्माकमुपाकरणद्वैविध्येप्युत्सर्गस्य न वैविध्यम् । उत्सर्गः खल्वेकएवोभयोरप्युपाकरणयोः प्रौष्ठपदे तैय्यां स्यात्। कुतः ? । उभयमुपाकरणं सूत्रयित्वा परतस्तैय्यामुत्सर्गस्य सूत्रणात्तथाऽवगतेः । अतएव कात्यायनोपि 'प्रौष्ठपदे तिय्येण वहि:'.--इत्यादिना तथैवाह । नचेदमुदगयनोपाकरणाभिप्रायं वचनमित्यत्र प्रमाणमस्ति । तथात्वेचोत्सर्गान्तरं नस्यादेव । अनुपदेशात् । तस्मादेकएवात्मर्गः प्रौष्ठपदे तिय्येणेत्यवधार्यते। अतएवाभयमुपाकरणमुपदिश्य “उत्सर्गश्चैकएवेषां तैय्यां प्रौष्ठपदेऽपि च”-दूत्येकमेवोत्सर्गमुभयेषामभिधत्ते । न च प्रौष्ठपदे इस्तेनोपाकरणकर्तुस्तत्रैव पुनस्तिथ्येोत्सान सम्भवतीतिवाच्यम् । वन्तिरे प्रौष्ठपदे इस्तेनोपाक वर्षान्तरे तत्रैव तिय्येणोत्सर्गसम्भवात् । तथा गार्य: । "सिंहे रवौ तु पुष्यः पूर्वाहेऽविवरे वहिः । छन्दोगामिलिताः कुर्युरुत्सर्ग खखच्छन्दसाम् । एक्ल
For Private and Personal Use Only