________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोड़पत्राणि ।
२५५पृष्ठे १४ पक्रो निवेश्यं । येषान्त प्रतिपत्त्यर्थकर्म स्विष्टकदितिदर्शनम् , तेषां खल्वेतदपचारेपि शेषम्याज्येन होतव्यं भवति ।
२६३पृष्ठे. १७पंकी निवेश्यं । तदेतत् सवं पूर्वनिबद्धां मतमनुसरभिरस्माभियाख्यातं विचारितञ्च । परमार्थतस्तु प्रतिपत्तिरेवैतन्न भवति । कुतः ? । निर्देशसामान्यात् । "ततएव वर्हिषः प्रादेशमात्र पवित्र कुरुते"-इति वदत्रापि, “ततएव वर्हिषः कुशमुष्टिमादाय"-इति निर्दिश्यते । अस्माञ्च निर्देशसामान्यात् तत्रव अत्रापि स्तुतशेषाणि वीं षि हृदयमागच्छन्ति । श्रागच्छन्ति चेत्, न युज्यते विनाकारणमुत्स्रष्टुम् । स्तृतानां वहिषामिदानी प्रतिपिपातयितत्वादिति चेत् । न। प्रमाणभावात् । प्रतिपत्तिप्राय बचनादिति चेत् । न । असिद्धेः । कथमसिद्धिः ? ।
आग्नेयादीनामप्रतिपत्तीनां सन्निहिततरत्वात् । तदेवं प्रमाणविशेषस्याभावात् विनियुक्तविनियोगोन खल्वपि युक्तोवर्णयितुम् । प्रतिपत्तिप्रायेवचनात् खल्वानुमानिकं प्रतिपत्तित्वं परिचिकल्पयिषितम् । तच्चैतत् न्यायविरोधान से मईति । तस्मात् “विरोधे च श्रुतिविशेषादव्यक्तः शेषे” इति सिद्धान्तात् स्ततशेषादेव वर्हिषः कुशमुष्टिमादाय, -इति व्याख्येयम् । तदेतदाचार्य्यपुत्रः स्पष्टयाञ्चकार ग्टह्यासंग्रहे । "स्तृतेभ्यान प्रचिनीयात् यातयामं स्तृतं स्मृतम्। स्तृतशेषात्ततोग्टह्य यज्ञवास्तुक्रिया तथा" इति। यज्ञवास्तुक्रियां कृत्वा चाज्येन पूर्णाहुतिहातव्या । तथाच ग्रह्यासंग्रहः । “यज्ञवास्तुक्रियां कृत्वा
For Private and Personal Use Only