________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
श्राद्धकल्पः।
[४ का.]
देवे प्रामुखवं पिये चोदङ्मुखत्वं पार्वणवदेव भवति । तत्रापवादकवचनाभावात्। तथा च कात्यायनः ।
"प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा ।
उपवेश्य, कुशान् दद्यादृजुनैव हि पाणिना” । इति तथा-पार्वणवदेवोपवेशनं ब्राह्मणानामाह। कता पुनरत्र प्राङ्मुखः स्यात् । कथं ज्ञायते ? । तत्र पित्र्ये कर्मणि दक्षिणामुखत्वं दक्षिणायादिशः पिश्यत्वादुपपन्नतमम् । दुइ तु,
“मदा परिचरेत्या पिढनप्यत्र देववत्" । इति कात्यायनेन पितॄणां देववत् परिचरणस्योपदेशात् अमाङ्गलिक दक्षिणामुखत्वं न युक्तं वर्णयितुम्-इति । तथा च, पिण्डदाने प्रामखत्वस्य तेनाभिधानात् सर्वत्र तथात्वमवगच्छामः ॥ २ ॥
प्रदक्षिणमुपचारः॥३॥
प्रदक्षिणं यथा भवति, तथोपचारः कर्त्तव्यः । अस्माच्च विशेषाभिधानात् तत्राप्रादक्षिण्यमुपचारस्थावगम्यते। अन्येऽपि विशेषाः,
"निपातो न हि सव्यस्य जानुनोविद्यते क्वचित् ।
मदा परिचरेत्या पिढनष्यत्र देववत्”। इत्येवमाद्याः कात्यायनोकाः च्छन्दोगपरिशिष्टादुपलब्धव्याः ॥ ३॥
काजवादीः ॥ ४ ॥ दी अत्र ऋजवोभवन्ति, न द्विगुणभुनाः ॥ ४ ॥
For Private and Personal Use Only