________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CE
श्राद्धकल्पः।
[ २ का.]
ननु, उत्तरसूत्रप्रतीकत्वमस्य गम्यते ?। सत्यं, गम्यते भवताम् , न कात्यायनस्य । तस्य त्वेतत्सूत्रप्रतीकत्वमेवैतस्यागमिषत । भवतामपि कथमेतगम्यते,-इति वक्तव्यम् । उभयथा हि दर्शनं भवति । यथा खन्वभ्युदिते तरण देवदत्तः प्रातराशं भुत चंक्रमणं कृत्वा मध्याहे स्नात्वा वासमी परिधायापूपान् भक्षयति, इति । अत्र यदि अभ्युदिते तरणौ देवदत्तः प्रथमं चंक्रमणं करोति, तत: प्रातराणं मुझे तदा चंक्रमणं कृत्वा'-इत्येतत् पूर्वस्यैव वाक्यस्य प्रतीकं भवति । अथ, प्रादौ प्रातराशं भुने, ततश्चंक्रमणं करोति अथ स्वाति, तदोत्तरवाक्यस्यैव प्रतीकं । तत्रैवमुभयथा दर्शने मति, 'उत्तानं पात्रं कृत्वा'-इत्येतदुत्तरस्यैव सूत्रस्य प्रतीकं, नैतस्य-इत्यस्यां कल्पनायां न किञ्चित् कारणं पश्यामः । पक्षपातेन हि भवाने मन्यते । परतन्त्रप्रज्ञाहि जनाः स्वयं शास्त्रार्थ निर्णतुमशनुवन्तः प्रख्यातवर्णनाखबलम्बेरन् । स्वतन्त्रप्रज्ञानान्तु नैवमकस्मात् पक्षपातायुक्तः । पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गादित्यस्तु किं विस्तरेण ?। न च, 'उत्तानपात्रदित्यस्य,
“युग्मानेव खस्तिवाच्यानङ्गुष्ठग्रहणं सदा ।
कृत्वा धूर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः" । इत्युत्तरलोकेनान्वयः' इति नारायणोपाध्यायमतं युक्रमिति वाच्यम् । यथा श्रुतार्थपरित्यागे मानाभावात् । शब्दस्य श्रवणमात्रात् योऽर्थोऽवगम्यते, मोऽयं श्रुत्याऽवगम्यते । अवगम्यते चेत्, कथं परित्यज्येत।
For Private and Personal Use Only