________________
Shri Mahavir Jain Aradhana Kendra
[२ का. ]
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
"आदर्शव्यजनं छत्रशयनासनपादुकाः । मनोज्ञाः पटवासाश्च सुगन्धाश्चूर्णमुष्टयः । अङ्गारधानिकाः शीते योगपट्टाश्च यष्टयः । कटिसूत्राणि रौप्याणि मेखलाश्चैव कम्बलाः । कर्पूरादेश्च भाण्डानि ताम्बूलायतनं तथा । भोजनाधारयन्त्राणि पतद्गाहांस्तथैवच ।
हद्दपू
तथाञ्जनशलाका केशानाञ्च प्रसाधनम् ।
एतान् दद्यात्तु यः सम्यक् सेाऽश्वमेधफलं लभेत्” । इति चैवमादीनान्तु युक्तमस्मिन्नवसरे दानमिति । पितॄणां दत्त्वेत्यभिधानाचैवं गम्यते । श्राच्छाद्यते अनेनेत्याच्छादनं वस्त्रम् । तदभावे यज्ञोपवीतं देयमित्युकं ब्रह्मवैवर्त्ते ।
"यज्ञोपवीतं दातव्यं वस्त्राभावे विजानता । पितृभ्योवस्त्रदानस्य फलं तेनाश्रुतेऽखिलम्” ।
इति । पाद्म ेतु, -
“निष्क्रयोवा यथाशक्ति वस्त्राभावे प्रदीयते” । इति वस्त्रमूल्यमपि दातव्यम् - इत्युक्तम् । श्रदित्यपुराणे तु यज्ञोपवीतस्यावश्यकत्वमुक्तम् । यथा ।
“पिहृन् सत्कृत्य वासेोभिर्दद्याद्यज्ञोपवीतकम् । यज्ञोपवीतदानेन विना श्रान्तु निष्फलम् ” ।
दूति । एतद्यतिस्त्रीश्ठद्र श्राद्धेष्वपि देयम्, -इति हेमाद्रिः । पुष्पादिविधिनिषेधाश्च स्मृत्यन्तरेभ्यो यथासम्भवमवगन्तव्याः । ग्रन्थगौरवभयादुपारम्यतेऽस्माभिः
For Private and Personal Use Only