________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
प्राडकल्पः ।
[२ का.]
महपात्रे मंसवान् समवनीय तत् पात्रं न्युजं कर्त्तव्यम् । कुतः ? । 'मातामहानाञ्चैवम्' इत्यतिदेशस्यार्थवत्तोपपत्तेः । 'तन्त्र वा वैश्वदेविकम्' इति च कुर्वन् वैश्वदेविकादन्यत् पृथगेव करणीयमित्युपदिशतीत्यवाचाम ।
तेषां खल्वेषां संस्रवाणं समवनयनं कथं करणीयम् ?-इति वक्तव्यम् । उच्यते । मस्रवोऽर्ध्वपात्रस्थं दत्तशेषजलम् , तच्चादौ पितामहपात्रस्य पिलपात्रे प्रक्षेप्तव्यं ततः प्रपितामहपात्रस्थ, प्रावर्तिकक्रमखरसात्, इति वाचस्पतिमिश्रप्रभृतयः । तदस्य पिलपात्रस्य अपिधानमस्माकं नास्ति । अनुपदेशात् । न खल्वनुपदिष्टमपि करणीयं भवति । यच्च शौनकवचनम् ,-"प्रपितामहपात्रेण निधाय प्रतिष्ठापयति"-इति । तदपि वऋचानामेव नास्माकम् । कथं ज्ञायते ? । तस्य तत्सूत्रकारत्वात् । शौनकीये च प्रयोगे पिटपात्रस्य प्रतिष्ठापनमात्रमेवकरणीयम् , न न्युजीकरणमपि । प्रतिष्ठापनमात्रस्यैव तेनापदेशात् । अस्माकन्तु न्युजीकरणमुपदिश्यते । तत् कोऽयमनयोः संबन्धः । येन शौनकीयमपिधानमस्माकमपि करणीयं भवेत्। श्राश्वलायनग्टापरिशिष्टेऽपि,-"तत् पात्रं शुचौ देशे पिढभ्यः स्थानममीति निधाय प्रपितामहाग्रंपात्रेण निदध्यात्, न्युजं वा तत् कुर्यात्" इति निधानन्युनीकरणयोर्वैकल्पिकत्वमुक्तम्। तदत्र, न्युज वा तत् कुर्यात्, इति वचनात् न्युजकरणपक्षे प्रपितामहपात्रेण न तत्पात्रस्य निधानम्, प्रपितामहपात्रेण निधानपने च न न्युनीकरणमिति व्यकमवगम्यते । रघुनन्दनस्वेतदबुद्ध्वा आश्वलायनग्रह्यपरिशिष्ठञ्चाजानानः,-शौनकवचनात् प्रपितामहपात्रेणधाकृतं पिलपान
For Private and Personal Use Only