________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
द्वितीया काण्डिका। श्रासनेषु दीनास्तीर्य ॥१॥
येवासनेषु श्राद्धिब्राह्मणाः पूर्वमुपविष्टाः, तेष्वासनेषु दर्भानास्तीयं । तदिदमासनेषु दर्भदानं तन्त्रेण करणीयम् । नैयायिकी हि तन्त्रतानोपेक्षितुं युक्ता । कात्यायनोऽपि,
"अर्थेऽक्षय्योदके चैव पिण्डदानेऽवनेजने ।
तन्त्रस्य विनिवृत्तिः स्यात् स्खधावाचनएवच" । इत्यर्थादावेव तन्त्रनिषेधमुपदिशन्नन्यत्र तन्त्रमनुजानाति। तदमेकुशाः देवे ब्राह्मणदक्षिणपार्श्वे पित्ये तु वामपार्श्वे दातव्याः, इति महायशाः । वचनमप्युदाहरति ।
"पिरणामासनं दद्यादामपार्श्वे कुशान् सुधीः ।
दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मसु । इति । तानिमान् दीन् दैवे, विश्वेभ्योदेवेभ्यः स्वाहा,-इति वा, वषट्, इति वा, नमः, इति वा, पित्र्य च "पिलभ्यः स्वधा"इत्युत्सृज्य दत्त्वा, तेषु ब्राह्मणानुपवेशयेत् । तथाच कात्यायनः ।
"स्वाहाकार-वषट्कार-नभस्कारादिवौकसाम् ।
खधाकारः पिढणाञ्च इन्तकारोनृणं मतः”। इति।
For Private and Personal Use Only