________________
Shri Mahavir Jain Aradhana Kendra
८१८
www.kobatirth.org
[ १ का. ]
करणीयम् । यद्यप्यच, एकब्राह्मणपक्षेोनेोपदिश्यते, तथापि न्याथा
गतत्वाद्ग्रन्थान्तरोपदेशाच्चादरणीयः । तथाच ग्टह्यासंग्रहः ।
“श्राद्धे ब्राह्मण एकश्चेत् स्वल्पञ्च प्रकृतं यदि । वैश्वदेवं कथं तत्र ? इति मे संशयोमहान् । प्रणीतान्नाद्यमुद्धृत्य सर्व्वस्य प्रकृतस्य तु । ब्राह्मणाय प्रदातव्यमेवं भवति सम्पदि" । इति । श्राद्धकल्पपरिशिष्टे ।
श्राद्धकल्पः
इति । शङ्खः ।
Acharya Shri Kailassagarsuri Gyanmandir
“एकस्तु ब्राह्मणः श्राद्धे ह्यल्पन्तु प्रकृतं भवेत् । त्रयस्तु पितरः प्रोक्ताः कथं चाश्नन्ति ते त्रयः । उरसि पितरेrभुङ्क्ते वामपार्श्वे पितामहाः । प्रपितामहादक्षिणतः पृष्ठतः पिण्डतका : " । इति । परवचनं गृह्यामंग्रहेऽपि । तथा वशिष्ठः ।
" अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् । शुभशीलापसम्पन्नं सर्व्वीलक्षणवर्जितम् । यद्येकं भोजयेत् श्राद्धे देवं तत्र कथं भवेत् ? । अन्नं पात्रे समुद्धृत्य सर्व्वस्य प्रकृतस्य तु । tarted कृत्वा ततः श्राद्धं समापयेत् । प्रास्येदग्नौ तदन्नन्तु दद्याद्दा ब्रह्मचारिणे” ।
"भोजयेदथवाऽप्येकं ब्राह्मणं पंक्तिपावनम् । दैवे कृत्वा तु नैवेद्यं पश्चादौ तु तत्क्षिपेत्" |
इति । तथा महायशोधृतं वचनम् ।
For Private and Personal Use Only