________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
श्राद्धकल्पः।
६१७
इति । ब्रह्मपुराणस्यैतदिति शूलपालि: । स खल्वयं हेपनिबन्धनोब्राह्मणबाहुल्यनिषेधः, इति सर्वेषामेव भवति। सर्वत्रैव तत्सम्भवात् । तदसम्भवे तु बाहुल्यकरणेऽप्यदोष एव ।
कथमुपवेशयेत्?। उदङ्मुखान् । श्रासनानि चामीषां दक्षिणाग्रकुशानि भवन्ति । कथं ज्ञायते ? । दक्षिणाया:दिशः पिश्यत्वात् ।
"दक्षिणाप्लवने देशे दक्षिणाभिमुखस्य च ।
दक्षिणागेषु दर्भेषु एषोऽन्यत्र क्रमः स्मृतः”। इत्याभ्युदयिकप्रकरणे कात्यायनेन तथोक्तत्वाच्च ।
“दक्षिणामुखयुक्तानि पितृणामामनानि च” । इति च देवलीये प्रयोगे ॥०॥ १७ ॥०॥ पक्षान्तरमाह,
दौ वा दैवे चीन पिचेर ॥१८॥
वाशब्दोविकल्पार्थः । देवे द्वौ ब्राह्मणो, पित्रे, त्रीन् ब्राह्मणान् , उपवेश्य, इति सम्बन्धः । अवकल्ये,-पितुरेकं पितामहस्यैकं प्रपितामहस्यैकमुपवेशयेदिति मिलित्वा त्रयोब्राह्मणाः भवन्ति ॥०॥१८॥ अन्यमपि पक्षमुपदिशति,
एकैकमुभयत्र वा ॥ १६ ॥
देवे एक पिये चैकमित्यर्थः । तदेवं दावपि ब्राह्मणावुपदियो यदा पुनरेक एव ब्राह्मणोलभ्यते, अनेकब्राह्मणवयौपयिकमन्नाद्यं वा न सम्पद्यते, तदाऽपि न श्राद्धलेापः । किन्त्वेकस्मिन्नेव ब्राह्मणे श्राद्धं
For Private and Personal Use Only