________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१४
पाइकल्पः।
[१ का.]
निमन्त्रणीयाः-इत्युच्यते ; ज्ञायत एव, एभ्योऽन्ये न निमन्त्रणीयाः, -इति । नैषदोषः । स्नातकादीनामपि शक्लत्वादिसम्भवात् तेषां वर्जनार्थोऽयमुपदेशो भविष्यति,-इति। ननु, दिनमत्वस्य तत्रासम्भवः ? 'श्रोत्रियान्'–दति हि सूचितम् । अवद्याश्चैते शुक्लादयः कथं निमन्त्रणीयाः स्युः । 'अनवद्यान्'-दति हि सूचितम् । अपिच । श्रोत्रियाणां शारीरदूषणैर्युकानामध्यवर्जनीयत्वमेव मुनयः स्मरन्ति । यथा वशिष्ठः ।
“अथ चेत् मन्त्रविद्युक्तः शारीरैः पंक्रिदूषणैः ।
अदव्यं तं यमः प्राह पंक्तिपावन एव सः” । इति । एवन्तर्हि अन्यथा वर्णयिष्यामः । पर्वोकानां निमन्त्रणीयानामसम्भवे द्विग्नादिवर्जमन्येऽपि निमन्लणीयाः, इत्येतदर्थाऽयमुप देशः, इत्यनवद्यम् ॥०॥ १५ ॥०॥ अथेदानीं श्राद्धस्य प्रयोगं वतुमुपक्रमते,स्नातान् शुचीनाचान्तान् प्राङमुखानुपवेश्य दैवे
युग्मान् ॥ १६॥ स्नातान् कृताप्लवनान् । प्राप्तस्यापि स्नानस्य पुनः कथनमावश्यकत्वार्थम् । तेन, अस्नाताः श्राद्धं भुञ्जानाः प्रत्यवायिणे भवन्ति,इति विज्ञायते । तथाच भारते।
"दैवं वा यदि वा पित्यं योऽनीयाहाह्मणादिषु ।
अनातो ब्राह्मणेराजन् ! तस्याधींगरानते" । इति । अथवा । स्नातान , इति विशिष्टम्नानाभिप्रायं वचनम् । तथाच वायवीये।
For Private and Personal Use Only