________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
[१ का.]
अभावेऽपि शिष्यान् स्वाचारान् ॥ १४ ॥
अपिर्भिनक्रमे । पूर्वोकानामभावे, शोभनाचारान् शिष्यानपि,इत्यर्थः । अपि शब्दोमातामहादीन् समुच्चिनोति । तथाच मनुः ।
"एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्वयं ज्ञेयः सदा मभिरनुष्ठितः । मातामई मातुलञ्च खस्त्रीयं श्वशरं गुरुम् ।
दौहित्रं विट्पति बन्धविग्याज्यौ च भोजयेत्” । इति । तदत्र, 'स्वाचारान्', इति पुनः कुर्वन् श्राचारवत्तयैवामीषां निमन्त्रणीयत्वं न पुनः श्रोत्रियत्वादेरत्यन्तमपेक्षा,-इति दर्शयति । अन्यथा, 'अनवद्यान्'-इत्यादेः सूत्रितत्वात् खाचारानित्यनर्थक स्यात् । मनुरपि, श्रोत्रियादीनभिधाय मातामहादीनामनुकल्पत्वमभिदधानएतदेवाह। यचाहतुर्वशिष्ठकात्यायनी ।
“यस्य चैव ग्टहे मूर्खदूरे चैव बहुश्रुतः । बहुश्रुताय दातव्यं नास्ति मूर्ख व्यतिक्रमः । ब्राह्मणतिक्रमोनास्ति विप्रे वेदविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हयते” । इति । तदपि बहुश्रुताय दातव्यम्, इति, ज्वलन्तमग्निमुत्सृज्य,इति चाभिधानात् मुख्यकल्पगोचरमितिपर्यवस्यति। तथा भविष्यपुराणे।
"तस्मानातिक्रमेत् प्राज्ञो ब्राह्मणान् प्रातिवेशिकान् । सम्बन्धिनस्तथा सर्वान् दौहित्रान् विटपति तथा ।
For Private and Personal Use Only