________________
Shri Mahavir Jain Aradhana Kendra
हाई
www.kobatirth.org
[१ का. ]
I
मातामहादीनान्तु श्राद्धं पृथग्वचनेनापदेच्यति । तदिदं बहुवचनम्, - "चौमे वमानामग्निमादधीयाताम् ” - इत्यादिवदभिधानक्रियाऽपेaar साहित्यं बाधयति । उद्देशक्रिया हि प्रत्येकं परिसमाप्यते, - इति न तामपेक्ष्य साहित्यं सम्भवति । त्यागक्रियापेक्षयेति चेन्न नानात्वात् । इति चेत् भवान् पश्यति, - माभूत् उद्देशक्रियापेक्षया साहित्यं त्यागक्रियापेक्षया तु भविष्यति । नैष दोषः । कस्मात् ? । नानात्वात् त्यागक्रियायाः । त्यागक्रिया हि प्रत्येकमेवेोपदिष्टा गृह्यकारेण । तथाच गृह्यस्रत्रम् | " पितुनीम गृहीत्वाऽसावेषते पिण्डोये चात्रत्वामनु यांश्च त्वमनु तस्मै ते स्वधेति” “अप उपस्पृश्यैवमेवेतरयोः” – इति । यद्यपि, श्रन्वष्टक्यक येतत् स्वचितम्, तथापि - “अन्वष्टक्यस्थालीपाकेन पिण्डपितृयज्ञोव्याख्यातः " - इति सूत्रेणान्वयस्य पिण्डपितृयज्ञेऽतिदेशात इहापि पिण्डपितयज्ञधर्मप्रदेशात् श्रचापि प्रत्येकमेव त्यागः सिध्यति । सूत्रकारोऽप्यत्रार्थ्यादौ प्रत्येकं त्यागमुपदेच्यति । पितृभ्यः, - दूति चतुर्थ्या श्रन्यथानुपपत्याहि देवतात्वं पितृणं कल्पनीयम् । तच बहुवचनात् सहितानां परिचिकल्पयिषितम् । साहित्यस्य च त्यागक्रियापेक्षया परिचिकल्पविषया त्यागस्यैकत्वमानुमानिकम् । प्रत्यक्षस्तु प्रत्येकं त्यागेोपदेशः । तस्मात्, —श्रनन्यथासिद्ध प्रत्येकत्यागोपदेश बलात् न मिलितानां देवतात्वम् । शक्यं हि बहुवचनमभिधानक्रियापेक्षयापि नेतुम् । “असावेतत्ते,— इति यजमानस्य पित्रे, असावेतत्ते, - इति यजमानस्य पितामहाय, असावेत, इति यजमानस्य प्रपितामहाय, ” - इत्यपि निगमा - भवति ॥ ० ॥ २ ॥ ० ॥
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
,
For Private and Personal Use Only