________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
[१ का. ]
इति वा भवति । सेयं यथाकथञ्चिद्युत्पत्तिः । प्रसिद्धिस्तु वच्यमाणलक्षणे कर्मणि द्रष्टव्या । यच रघुनन्दनेन -
"संस्कृतं व्यञ्जनान्यानं पयोदधि घृतं मधु । या दीयते यस्मात् तेन श्राद्धं निगद्यते” । इति पुलस्त्यवचनं श्राद्धशब्दस्य कर्म्मनामधेयतायां प्रमाणम् - इति, तद्वचनबलेनैव, — श्रद्धया श्रन्वादेर्यद्दानं तत् श्राद्धम् - इति चाभिहि तम् । तदसङ्गतम्। दानार्थे तद्धितस्याननुशासनात् । श्रपिच । दीयते इति कर्मणि तिङः श्रवणादन्नं खल्वच विशिष्यते । तेन, दीयमानस्यान्नादेरच श्राद्धत्वमुच्यते, न कर्म्मणः । दृश्यते खल्वन्यत्राप्यन्नस्य श्राद्धव्यपदेशः, – “ श्रदैवं भोजयेत् श्राद्धम्” - इति, “श्राद्धभुक् चाष्ट वर्जयेत्” – इति, “ श्राद्धभोक्ता च कर्त्ती च " - इति, “श्रशको श्राद्धभोजने " - इति चैवमादी बहुलम् । तदिदं पुलस्त्य - बचनं न श्राद्धशब्दस्य कनामधेयतायां नवेोकार्थतायां प्रमाणमित्यफलमेव प्रलपितम् । न खल्वन्नादेदीनमेव श्राद्धं । किन्तु यत्रतत् श्रद्धया दीयते, तदेव कर्म श्राद्धशब्दाभिधेयं भवपि । कथं ज्ञायते ? |
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
८६१
"प्रेतं पितॄंश्च निर्दिश्य भोज्यं यत् प्रियमात्मनः । श्रद्धया दीयते यच तत्श्राद्धं परिकीर्त्तितम् " ॥
इति पृथ्वीचन्द्रोदयादिधृतमरीचिवचनात् । इत्यास्तां विस्तरः ॥ १ ॥ ० ॥ अमावस्यायां पितृभ्यो दद्यात् ॥ २ ॥
ऋजुरतरार्थः । श्रमावस्थायाम्, - इति सप्तमीनिर्देशात् निमित्तत्वमस्याश्रवगच्छामः । स्मरन्ति च ।
For Private and Personal Use Only