________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
[२ प्र.]
यः पुमानि श्रतीतानि कमीत्वा उत्तरायारभते, देवाः पितरश्च तस्य तत् — श्रतीत होमीयं हविर्न प्रतिगृह्णन्ति । श्रथवा । 'यानि'इति यः, -- इत्यर्थे व्यत्ययात् पदम् । यः श्रतीतान्यक्कृत्वा उत्तराण्यारभते, देवाः पितरश्च तस्य तत्- सर्व्वमपि हविर्न प्रतिग्टहन्ति ॥ अथेदानीम् — “अग्नये स्वाहेति पूर्व्वं तूष्णीमेवोत्तरां मध्ये चैवापराजितायाञ्चैव दिशीतिसायम् ” - इति सूत्रोक्तामपराजितां दिशं
व्याकुरुते,—
प्रक्रमणे तथा होमे स्विष्टकृते तथा । यस्यां दिशि विधिं प्राहुस्तामाहुरपराजिताम् ॥ ७६ ॥
प्रक्रमणे - बध्वाः सप्तपदीगमने, तथोत्तरविवा है, स्विष्टकृद्धो मे च, यस्यां दिशि विधानं प्राज्राचार्य्य:, तां दिशमपराजितां ब्रुवन्त्याचार्य: ; प्रागुदीची मैशानीमित्यर्थः । तथाच प्रक्रमणे गोभिलसुत्रम् । “सूर्पण शेषमग्नावेोप्य प्रागुदीचीमभ्युत्क्रामयन्ये कमिषद्वति” – इति । तथेोत्तरविवाहे । " प्रागुदीव्यां दिशि यद्ब्राह्मण कुलमभिरूपम् ” - इति । तथा स्विष्टकृद्भामे। “अग्नये स्विष्टकृते स्वाहेत्युत्तरार्द्धपूर्व्वद्धे जुड़यात्”
--
इति ॥
अयुक्तमम्ललवणैर पर्युषितमेवच । हविष्यमेतदन्नाद्यमसुरैश्चाप्यसंयुतम् ॥ ७७ ॥
अम्ललवणैर्न युक्तम्, न च पर्युषितम्, नाप्यसुरैर्भिश्रितम् । तदीदृशमादनाद्यं हविष्यमाहुः । श्रसुरः - इति नैघण्टुककाण्डे मेघनामसु
For Private and Personal Use Only