________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४२
सह्यासंग्रहः ।
[२ प्र.]
नवोपयच्छेदित्यभिप्रायः । तथाच गोभिलसूत्रम् । “सम्भार्यमपित्वेके" -इति । शाखान्तरेऽप्येवमेव प्रायः कलवादाः पद्यन्ते । परन्तु तत्र क्रियाववादयोऽपत्यगताः श्रूयन्ते। तथा चोकम् ।
"ग्रहाना वेदिपिण्डच्च प्रसते याज्ञिकान् सुतान् । सीतापिण्डन्तु ग्रहाना सुतान् सते कृषीवलान् । सर्वकामसम्मवांश्च हतीयस्य परिग्रहात् । गोष्ठपिण्डग्रहाच्चापि गोमिनः सुखिनस्तथा ।. दूतश्चेतश्च गन्तारः पञ्चमेनास्थिताः सुताः । षष्ठेन तु ग्टहीतेन भवन्ति छतसेक्निः । श्मशानपिण्डग्रहणविधवा जायते ध्रुवम् । बन्ध्या वा विधवा वा स्वादष्टमग्रहणादपि । मिश्रमेतद्भवेत् सर्वं यतः पूर्वोदितं फलम् ।
नवमस्य ग्रहस्तस्मात् भो वा यदि वाशुभः" । इति ।।
पाणिग्रहणमन्त्रैस्तु नियतं दारलक्षणम् ॥ २३ ॥
पाणिग्रहणमन्त्राः ग्टह्याताः ग्रनामिते-इत्यादयः। हतीया चेयं प्रकृत्यादित्वादभेदे द्रष्टव्या । पाणिरहणमन्त्राः निश्चितं दारलक्षणमित्यर्थः । तथाच मनुः ।
“पाणिग्रहणिकामन्त्रा नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्भिः सहमे पदे”। इति ॥
For Private and Personal Use Only