________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
[१ प्र.]
"चरी समशनीये तु पित्यज्ञचरी तथा।
होतव्यं मेक्षणेनान्यदुपस्ती-भिधारितम् । इति।
“चरौ तु बहुदैवत्ये होमस्तस्योपघातवत्" । इति च परिशिष्टप्रकाशादी स्मृत्यन्तरम् । तथा अन्वष्टक्यकर्मणि गोभिलसूत्रम् । “कसे चरु समवदाय मेक्षणेनोपघातं जुहुयात्"इति। वृषोत्सर्गहोमस्य तु बहुदैवतत्वेऽपि नापघातत्वम। तदाह कर्मप्रदीपः ।
"एतेभ्य एव जुड़यानोक्षणेनावदाय च ।
सुच्याहुतीश्वराः पृथक् सिञ्चेदाज्याभिघारितम्” । इति। यत्रापि गोभिलेन “स्थालीपाकावृताऽन्यत्" इति मुवितम्, तत्रापि होमस्य नोपघातत्वमिति वक्ष्यामः ॥
हुत्वाऽज्यं परिशेषेण यत् द्रव्यमुपकल्पितम् ॥११॥ सुवेणैव तु तत् स्पृष्टं सम्पातं चैव तं विदुः ।
आज्यं कृत्वा होमावशिष्टं यदाज्यद्रव्यं उपसमीपे पात्रान्तरे कल्पितं स्थापितं, तत् सम्पातं विदुः। श्राज्यं हुवा हामावशिष्टं यदाज्यं सुवेण बड्या मस्तके स्पृष्टं, तदपि सम्पातं विदुः। तथाच चतुर्थीकर्मणि गोभिलसूत्रम्। “आहुते(हुतेस्तु सम्पातमुदपात्रेऽवनयेत्” इति। तथोत्तरविवाहे । “आहुतेराहुतेस्तु सम्पातं मूर्द्धनि बवा अवनयेत्” इति ॥
For Private and Personal Use Only