________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ඒ
ह्या संग्रहः ।
[१ प्र. ]
वक्तव्ये, - प्राक् कृता पार्थिवीरेखा - इति भयन्तरेणाह । श्रनेनैव श्लोकशेषो व्याख्यातः । श्रासाञ्च रेखानां पाठक्रमेणैव करणं बेोद्धव्यम् । तदनेन, “मध्यतः प्राचीं लेखा मुल्लिख्योदीचीञ्च संहतां पञ्चान्मध्ये प्राचीस्तिस्र उल्लिख्याभ्युक्षेत्”– इति सूत्रेोक्तानां रेखाणां दैवतमुक्तम् ॥
उत्करं गृह्य रेखाभ्योऽरत्निमाचे निधापयेत् ॥ ५३ ॥ द्वारमेवन्तु द्रव्याणां प्रागुदीच्यां दिशि स्मृतम् । रेखाभ्य: पूर्वोक्राभ्यः, उत्करं ग्टह्य गृहीत्वा, अरनिमात्रे देशे निधापयेत् स्थापयेत् । उद्धृत्य कीर्य्यते विक्षिप्यते इत्युत्करो रेखात्कीर्णम्टत्तिका भष्यते । कस्यां दिशि निधापयेत् ? । उच्यते । प्रागुदीच्या धान्यां दिशि पुनर्द्रव्याणामुत्कराणामेवं द्वारं निधापनद्वारं मुनिभिः स्मृतम् । द्वारमेतत् पदार्थानाम्, - इति तत्त्वकारपाठेऽपि तथैवार्थः । 'एवमैशान्यां दिशि होमद्रव्याणामानयनार्थं द्वारं स्मृतम्' - इति दीक्षितरामकृष्णः ॥
--
रेखाणां मानमाह,
पार्थिवी चैव सैामी च लेखे हे द्वादशाङ्गले ॥ ५४ ॥ एकविंशतिराग्नेयी प्रादेशिन्ये उभे स्मृते ।
पृथिवीदेवताका सामदेवताका च दे रेखे द्वादशाङ्गुलपरिमिते । अग्निदेवताका रेखा एकविंशत्यङ्गुलपरिमिता । उभे श्रवशिष्ठे प्राजापत्यैन्द्रीरेखे प्रादेशिन्ये प्रादेशपरिमिते स्मृते । एतदुकं भवति । प्रथमं प्राक्संस्थां द्वादशाङ्गुलपरिमित पार्थिवीं रेखामुहि खेत्
For Private and Personal Use Only