________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र.
ह्यासंग्रहः।
७६५
फलेन लक्षणं लिखन् फलनी स्यात् । फलनं फलम् । तद्विद्यतेऽस्थति फलनी फलवान् इत्यर्थः। फलिनी, इति पाठे, फलेन लिखिता रेखा फलिनी फलप्रदा स्यादिति व्याख्येयम्। पर्णन पत्रेण ॥ यस्मादेवम्,
तस्मात् फलेन पुष्येण पर्णनाथ कुशेन वा ॥५॥ पालिखेलक्षणं विप्रः सिड्विकामस्तु कर्मसु । ऋज्वर्थः श्लोकः ॥ सव्यं भूमी प्रतिष्ठाप्य प्राल्लिखेद्दक्षिणेन तु ॥५१॥
तावन्नोत्थापयेत् पाणिं यावदग्निं निधापयेत् । सव्यं वामं पाणिं भूमौ प्रतिष्ठाप्य दक्षिणेन पाणिना लक्षणं प्रोल्लिखेत् । यावदग्निं स्थण्डिले स्थापयेत्, तावद् वाम पाणिं नोत्थापयेत-भूमावेव स्थापयेदित्यर्थः ॥ अथेदानी रेखानां देवतामाह,प्राकृता* पार्थिवी रेखा आग्नेयी चाप्युदक् स्मता
प्राजापत्याच ऐन्द्रीच सामी च प्राककृता स्मता।
पार्थिवी पृथिवीदेवताका रेखा प्रासंस्था प्राचार्येण कृता। श्राचार्येण प्राक् संस्था या रेखा प्रथममभिहिता सेयं पार्थिवी,-इति
* प्राग्गता, इति पाठान्तरम्। । ज्ञेया,-इति पाठान्तरम्। । गता,-इति पाठान्तरम्। प्राजापत्या तथा चैन्द्री,-इति पाठान्तरम् ।
5 H2
For Private and Personal Use Only