________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र. ]
गृासंग्रहः ।
कोठे उदरे । मृतभक्षणे शवदाहे । क्षये, सर्वेषां नाशे प्रलये, -
इति यावत् । चिष्टमन्यत् ॥
एवमग्निनामान्यभिधाय तेषां श्रावणं ज्ञानञ्चेदानीं विधत्ते, -
एतेऽग्नयः समाख्याताः श्रावयेद् ब्राह्मणः सदा । सप्तत्रिशतिविख्याता ज्ञातव्याश्च द्विजेन तु ॥ १२ ॥
एते पूर्वोक्ता श्रग्नयः मम्यक् कथिताः । तानेतान् ब्राह्मणः सदा द्विजं श्रावयेत् । द्विजेन तु सप्तचिंशतिविख्याता: ( श्राषीयं प्रयोगः ) सप्तत्रिंशत्सङ्ख्यया विशेषेण कथिताः, -प्रमिद्धा वा अमयो ज्ञातव्याः । तदिदमर्थं कस्वविनियुक्तानामप्यग्निनाम्ना पूर्व्वं परिकीर्त्तनमिति
द्रष्टव्यम् ॥
सप्त जिह्वाः स्फुरन्त्येता हुताशनमुखे स्थिताः । याभिर्द्दव्य' समश्नन्ति हुतः सम्यक् द्विजेात्तमैः॥ १३ ॥
5 2
909
मुखे स्थिता एता वच्यमाणाः सप्तजिहाः स्फुरन्ति । द्विजेात्तमैः, - निषादग्यपतिवत् कर्मधारय समासस्यैव युक्तत्वादविशेषाच्च उत्तमद्विजैः, सम्यक् हतं हव्यं याभिर्जिहाभिः समश्नन्ति – दिवैौकसः, - इति वाक्यशेषः ॥
काली कराली च मनेाजवा च सुलोहिता चैव सुधूम्रवर्णी । स्फुलिङ्गिनी चैव शुचिस्मिता च बेलायमाना इति सप्त जिह्वाः ॥ १४ ॥
For Private and Personal Use Only