________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. १० का.
गपि संवत्सरादृत्विगाचार्यो प्राप्ती पुनरर्हयेयुः,'–दति । 'चः समुच्चये परिमंवत्मरकालमेव समुच्चिनोति। पुनर्यज्ञविवाहयोश्च पुनर्यज्ञविवाहयोश्च, इति सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति ॥०॥ २६॥०॥
अव शिवम्। शाण्डिल्यस्य महामुनेरकलुषे वंशे प्रसंशोत्तरे क्षीराधावकलङ्कम लवपुः कान्तः कलानां निधिः । वाक्पीयूषकरैर्हरन्नतितरां चेतांवरीणामपि क्षान्तोऽभूत् परिपूर्णसुन्दरकलोऽप्युबासनावासभूः ॥ राधाकान्त: म खलु विदितो मौलिरुच्चैर्गुणानां मेधोत्कर्षप्रथितमहिमा धीमतामग्रगण्यः । शास्त्रालापव्यसनरसिकः सन्नित्तोऽन्यदोषात् साक्षात् दोषाकर इव सतामाकरः सद्गुणानाम् ।।
सिद्धान्तवागीश इति प्रसिद्धा यः मसिद्धान्तगणेष्वभिज्ञः । काले मितं वाक्यमुदर्कपथ्यं
योपदेष्टाऽऽगमवज्जनानाम् ॥ कृपापारावारः स खल्लु शरणं रूढविपदां परानिष्टद्देष्टा परमभिनिविष्टः श्रुतिविधौ । स्फुरद्भकिश्रद्धाविमलमतिरुचैगिरिसुतापदाम्भोजवन्दप्रचुरमकरन्दे मधुकरः ॥
योऽध्यापयामास परःसहस्राननन्यकाम्यानपि शिव्यसङ्घान् ।
For Private and Personal Use Only