________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. १० का.
ग्टह्यसूत्रम् ।
यशसा भशोसि महसा भासि श्रीभक्षासि श्रियं मयि धेहीति त्रिः पिवेत् ॥ १५॥
यशसा भक्षोमि, इत्येवमादिना मन्त्रेण, त्रि:-वारत्रयं पिवेदहणीयः । श्राह । समस्तमन्त्राम्नानं किमर्थम् ?। उच्यते । मन्त्रे भक्षशब्दस्य त्रिः पाठात् त्रिः पानविधानाच्च भक्षश दान्नेरेव मन्त्रावयवैः पानं स्थात्, इत्यपि कदाचिदाशङ्का स्यात् कम्यचिन्मन्दमतेः । अतस्तन्निरामार्थ मन्त्रान्तेन पानप्रतिपादनार्थम्, ममाम्नायप्रज्ञापनार्थश्च समस्तमन्त्राम्नानम्, इति भट्टनारायणप्रातयः। तस्मात्, कौथुमादीनां मन्त्रान्तेनैव पानम् । येषान्तु 'श्रियो भक्षोसि’---इति मन्त्रपाठः, तेषां मन्त्रावयवैरेव पानं स्यात् । तथा च छन्दोगग्टह्यान्तरम् । "मधुपर्क त्रिः पिवेद् यशसा महस: श्रिय इति, वृष्णी चतुर्थम्" दति । तदत्र, मन्त्रप्रतीकोपादानात् प्रतीकैरेव पानमवगम्यते । 'श्रीभदोमि'-दति खल्वरमच्छाखायां मन्त्रपाठः।
दमिदानीमत्र मन्दिह्यते । किं प्रतिपानं मन्त्रावृत्तिः, उत सकृन्मन्त्रेण पानत्रयम् ?-इति। सकृन्मन्त्रप्रयोगः, इति केचित् । कुतः ? । “एकद्रव्ये काहनी सकृन्मन्त्रवाचनं कृत्वा,” इति वचनात्। तदमङ्गतम्। कस्मात् ?। ट्रव्यभेदात्। द्रव्यभेदः खल्वत्र भवति। न हि यदेवादितः पिबति, परस्तादपि तदेव पिवति,इत्यप्रमत्तः शक्नोति वदितुम् । तस्मादस्यत्र द्रव्यभेदः। उत्तरत्र वृष्णीमिति करणाचात्र प्रतिपानं मन्त्रावृत्तिमवगच्छामः। आह । मध्ये तर्हि पाचमनं प्राप्नोति ? अन्यथोच्छिष्टः कथं द्वितीयं
5 D2
For Private and Personal Use Only