________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ८ का.
ग्टह्यसूत्रम्
७३५
तथोकाः। अवरायशब्देनैतत् दर्शयति, धूमप्रमाणान्यत्वबहुत्वाभ्यां फलान्यत्वबहवं भवति, परन्तु न्यूनकन्येऽपि त्रयो ग्रामा: सम्पद्यन्ते,इति । अपरे तु मन्यन्ते,-ज्वालादीप्तितारतम्येनापि फलतारतम्यं भवति, इति ॥०॥ १६ ॥०॥
अमोघं कर्मेत्याचक्षते ॥ १७॥ इदं ग्रामकामकर्म अमोघं अव्यर्थमिति प्राचक्षते कथयन्नि प्राचार्याः । अमोघवचनेनैतदर्शयति, यदि ज्वाला न भवति, धूमाऽपि न जायते, तथापि नैवेदं कर्म मोघं भवति, अपितु कियदपि ग्रहक्षेत्रादिक फलमस्य स्यादेव, इति । कुतः ? । अमोघवचनस्यैवमर्थत्वात् ॥ ॥०॥ १७ ॥०॥
वृत्त्यविच्छित्तिकामा हरितगोमयान सायं
यात् ॥ १८॥
वृत्तिवर्त्तनमुपजीवनमित्यनान्तरम् । अविच्छित्तिरविच्छेदः-अविच्युतिरित्येतत् । वृत्तेरविच्छित्तिः वृत्त्यविच्छित्तिः । तां कामयते,इति वृत्त्यविच्छित्तिकामः । आह । कतमा पुनरिह वृत्ति रभिप्रेता ?। शिलाञ्छादिरूपा,इति ब्रूमः । कुतः ? । तस्या एव ब्राह्मणदि वृत्तितया प्रमंशनात् । तथाच दृत्तिमुपक्रम्य मारति भगवानत्रिः ।
“मचैष धाऽभिहितः संस्थिता यत्र वर्णितः ।
बहुमानमिह प्राप्य प्रयान्ति परमां गतिम्" ! इति । मनुरपि ।
For Private and Personal Use Only