________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ८ का.]
रह्यसूत्रम्।
७२६
दिग्देशान् । प्रत्येत्य पुनरागत्य । किम् ? । अग्निसमीपदेशम् । कुतः ?। प्रकृतत्वात् । प्रतिशब्दस्वरसाच्च । अक्षतान्,-प्रकृतान् होमवल्योरवशिष्टान् इत्यर्थः । प्राश्नीयात् भुञ्जीत । किमेक एव प्राश्नीयात् ? । न । उपेतैरमात्यैः सह । उपेतैः समीपमागतैरमात्यैः सह मिलित्वा । अमात्यशब्देन पुत्रभ्राटप्रमतयो ग्टह्या उच्यन्ते । एतरनं भवति । यावदयं ग्टहानिकान्तो जुहोति वलि चोतमृज्य प्रत्येति, तावदमात्या अप्यस्य समीपमागच्छेयुः ;-येन तैः मार्द्धमक्षतप्राशनमम्योपपद्यते, इति। स खल्वयमर्थः उपेतपदस्खरमादवगम्यते ॥०॥ ५ ॥०॥ काम्येन खल्चेतेन कर्मणा भवितव्यम् । किं पुनरस्मिन् कर्मणि कृते फलं स्यात् ? । तदुच्यते,
स्वत्ययनम् ॥ ६॥ व्याख्यातोऽक्षरार्थः । तदिदं कर्मणः फलवचनपरं सूत्रं न वामदेव्यगानविधानार्थम् । अनर्थकत्वापत्तेः । परिभाषाप्राप्तं वामदेव्यगानं खन्वन्तरेणाप्येतद्वचनमिदानों कर्त्तव्यं भवति । उत्तरतः कान्तरसूत्रणादिदानीमेतम्य कर्मणोऽपवावगमात् । अपर आह । कर्मापवर्गविहितं वामदेव्यगानमिह स्वस्त्ययनम्-इति ॥०॥ ६ ॥०॥
वशङ्गमौ शङ्खश्चेति पृथगाहुती व्रीहियवहोमौ
प्रयुञ्जीत ॥ ७॥ वशङ्गमौ, इति मन्त्रेण, शङ्खच, इति मन्त्रेण च, पृथक् नाना
17
For Private and Personal Use Only