________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
गोभिलीयं
[४ प्र. ८ का.]
वमादिवत् , देवजनेभ्यः, इत्यत्रापि इतिः क्रियेत । तदकरणादवगछामः, नायं बलिमन्त्रः, इति। तस्मादुत्सर्गेणैव यजुषः संबन्धः । तथा चोक्तम् ।
"ऊई वखितिमन्त्रेण देवेभ्योत्सृज्य वा बलिम् ।
तथेतरजनेभ्यश्च प्राञ्चमन्यद् यथाविधि”। इति। उत्क्रमणमुदीक्षणञ्च इयमपि मन्त्रानुपदेशाद् व्याहृतियोगेन स्यात्। वृष्णीमिति केचित् ॥०॥ ३ ॥०॥
तिर्यडितरजनेभ्योऽाङवेक्षमाणः ॥ ४ ॥
तिर्यङ् तिरश्चीनं यथा भवति, तथा,-इति क्रियाविशेषणमेतत् । अथवा । “प्राञ्चमन्यद् यथाविधि" इति वचनात् प्राञ्चमेतं बलिं हरेत्। ततश्च एवं व्याख्यायते । तिर्यङ् तिरश्चीन: सन् , इतरजनेभ्यः देवजनेतरजनेभ्यः, अक्षताञ्जलिमुत्सृजेत्। प्रकृतेन वसुवन एधीत्यनेन मन्त्रेण । किमविशेषेण ? । न। कथन्तर्हि ? । अदाङवेक्षमाणः । अधोऽवलोकयन् । अवाङवेक्षमाणः, इति पाठेऽपि स एवार्थः। अाङ् अधोमुखः, अवेक्षमाण बलिदेशम्, इति वा वर्णनीयम् ॥०॥ ४ ॥०॥
अनवेक्षमाणः प्रत्येत्याक्षतान प्र सह ॥५॥ अनवेक्षमाणेऽनवलोकयन् । अनपेक्षमाणः, इति पाठेऽपि, अपेत्ययमुपसर्गः, इति स एवार्थः । किमनवेक्षमाणः ? । प्रहतान् बलि
For Private and Personal Use Only