________________
Shri Mahavir Jain Aradhana Kendra
[४ प्र. ७ का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
,
भवति । मध्यतः किञ्चिदुच्चम् श्रभितश्च मखातम् । तथैवावटानां सर्व्वतेाऽभिमुखत्वसम्भवात् । इयमपि त्रिसूत्री यथाक्रमं ब्राह्मणक्षत्रियवैश्यानामवमानस्य विशेषणाथी, - इति केचित् । सामान्येनावसानस्य विशेषणार्थ, - इत्यपरे ॥ ० ॥ १४ ॥ ० ॥
११
तचावसानं प्राग्द्वारं यशस्कामेा बलकामः कुर्व्वीत ॥ ॥ १५ ॥
,
तत्र तस्मिन् स्थाने । श्रवस्यन्त्यस्मिन् — इत्यवसानं गृहं प्राग्द्वारं कुर्वीत । कः ? | यशस्कामा बलकामः । यशस्कामा वा बलकामा वा — दूत्यर्थः । तदत्र, “खादिरे बध्नाति, पालाशे बध्नाति, रोहित के बध्नाति ”, — दूतिवद्दिकन्यो बेाद्धव्यः । कस्मात् ? । कामशब्दाभ्यासात् । यदि पुनरुभयकामोऽभिप्रेतः स्यात्, तर्हि यशो बलकाम:, - इति कुर्य्यात्, अलं कामशब्दाभ्यासेन । तस्मात्, कामशब्दाभ्यासादवगच्छामः, -विकल्पोऽयम्, - दूति ॥ ० ॥ १.५ ॥ ० ॥
उदग्दारं पुत्रपशुकामः ॥ १६ ॥
तत्रावसानं कुर्व्वीत, — इत्यनुवर्त्तते ॥ ० ॥ १६ ॥ ० ॥
दक्षिणाद्दार सर्व्वकामः ॥ १७ ॥
दक्षिणाद्वारं दक्षिणा नाम दिक्, तत् द्वारम् - श्रवमानं कुर्वीत - इत्यनुवर्त्तत एव । मर्व्वकाम:, - इति, यत् किञ्चित् यशोबलादिकं कामयते, तत् सर्व्वमेतस्माद्भवतीत्यर्थः ॥ ० ॥ १७ ॥ ॥
For Private and Personal Use Only