________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०.
गाभिलीयं
[४ प्र. ६ का.]
यशोऽहं भवामीति यशस्काम आदित्यमुपतिष्ठेत पूर्वाह्नमध्यन्दिनापरालेषु ॥ १० ॥ यशोऽहं भवामीति पञ्चाऽत्राभिप्रेतः। तेनादित्यमुपतिठेत। कः?। यशस्कामः । यशः कामयते यः, सोऽयं यशस्कामः । कस्मिन् काले ?। पूजा हमध्यन्दिनापराह्पु । तिसृष्वपि सन्ध्यासु, इत्यर्थः । कुतः ? । परतः सन्धिवेलयोः पूर्वाहापराह्नपदप्रयोगदर्शनात् । एवञ्च, नित्योपस्थागादनन्तरमेतदुपस्थानं स्यात् । यथाश्रुतार्थ एव मम्यक् इति केचित् ।। ० ॥१०॥०॥ किं बधापठितेनैव पञ्चर्धन ? । न । कथन्तर्हि ?
प्रातरलस्येति सन्नामयन् ॥ ११ ॥ प्रातरहस्य, इति मन्त्रभागं संनामयन् , सम्यक्-यथालिङ्ग, नामयन् परिणमयन्-अहं कुर्वनित्यर्थः । एतदुतं भवति । प्रातरङ्गम्य तेजसः, इत्येतस्मिन् मन्त्रम्थाने,-मध्यन्दिनस्य तेजमः, इति मध्यन्दिने, अपराह्नस्य तेजसः,-दूत्यपराहे, ऊहं कुर्यादिति ॥ ॥ ॥११॥०॥ कान्तरमाह,
सन्धिवेलयोरुपस्थान५ स्वस्त्ययनमादित्यनावमित्युद्यन्तं त्वाऽऽदित्यानूदियासमिति पूवीरू, प्रतिति
ष्ठन्तं त्वाऽऽदित्यानुप्रतिष्ठासमित्यपराह्ने ॥ १२ ॥ सन्धिवेलयो: प्रातः सायमित्येतत् । उपस्थानं कर्त्तव्यमिति सूत्रशेषः ।
For Private and Personal Use Only