________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ४ का.]
दे पञ्च दे क्रमेणेता हविराहुतयः स्मृताः ।
शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत्" । इति ॥०॥२६॥०॥
एता एव देवताः सीतायज्ञ खलयन प्रवपणप्रलवनपर्यायणेषु ॥ ३०॥ यजेत, इत्यनुवर्त्तते । मीता लागलपद्धतिः, तत्र यो यज्ञः म सीतायज्ञः । स चायं कष्टस्य क्षेत्रस्य पूर्वोत्तरार्द्ध स्यात् । पक्वव्रीहियवमध्ये क्षेत्रस्य पूर्वार्द्धात्तराई, इति केचित् । स खल्वयं मीतायज्ञः शरदि वसन्ते च स्यात् । कस्मात् ? । विशेषाभावात् । पक्कं शस्य छेदनात् परतः क्षेत्रादाकृष्य यत्र परिष्कृते देशविशेषे स्थाप्यते, सोऽयं खलः । तत्र खलयज्ञः कर्त्तव्यः । स खल्वयं खलयज्ञोऽप्युभयत्रैव करणीयो भवति:-यवानां खले, बीहीणं खले च । प्रवपणं वीजवपनम् । प्रशब्दात् समस्तेषु वीजेषु उप्तेष्वयं यज्ञः स्यात् । प्रलवनं धान्यानां छेदनम् । प्रशब्दः पूर्ववत् । पर्ययणं-परि सर्वतोभावेन धान्यानां खलाद्ग्रहनयनम् । एतेषु सीतायज्ञादिषु एता एव देवताः यजेत । ___ ननु, प्रवपणक्रमस्य युक्त्वात् कस्मात् क्रमभेदः क्रियते ? । उच्यते। सीतायज्ञखलयज्ञयोस्तावदादितो निर्देश: ब्रीहियवयोईयोरेव धान्ययोस्तयोः करणप्रज्ञापनार्थः । प्रवपणादीनां क्रममतिक्रम्याभिधानं शारदधान्यमतिक्रम्य तेषां करणप्रज्ञापनार्थम् । तेन, सीतायज्ञखलयज्ञयोरुभयत्र करणात् चत्वारो यज्ञा भवन्ति, प्रवप
For Private and Personal Use Only