________________
Shri Mahavir Jain Aradhana Kendra
[8 प्र. २ का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
६ ३६
“पित्र्ये यः पंक्तिमूर्द्धन्य स्तस्य पाणावनग्निमान् । त्वामन्त्रवदन्येषां तृष्णीं पात्रेषु निःचिपेत्” ।
---
इति । यच्च, – 'अग्निमतामेवात्राधिकारः । " श्रन्वष्टकास्वष्टकावदग्न हुवा मात्रे पितामह प्रपितामच पूर्व्ववद्राह्मणान् भोजयित्वा " - दूति विष्णुवचे, "वह जला दद्यात् " - इति कात्यायनसूत्रे च, अग्निवचनात् विप्रपाण्यादे र्व्यवच्छेदात् । शरमयवर्हिषा कुशमयवधिवत् । पितृयज्ञीय होमस्य लौकिकाना निषेधाच्च' - इति तत्त्वकारवचनम् । तदप्यतत्त्ववचनमेव । कस्मात् ? । अस्मत् परिशिष्टकारेण श्रस्मिन्नेव कणि अनमितेोऽपि विप्रपाणौ होमोपदेशात् । श्रचार्येणापि 'जुहुयात्' - इति सूचितं न पुनर् 'अग्नी जुहुयात् ' - इति । होमोपदेशस्तु कठादिअनी शाखिविशेषाणामेव नास्माकम् । कथं ज्ञायते ? | विष्णुप्रभृतीनां तत्स्वचकारत्वात् । 'श्रन्वष्टकासु' – इति बहुवचनेोपन्यासाच्च ।
-
मध्यमायां खल्वस्माकमन्वष्टक्यक - इत्यवोचाम | न खलु स्वशास्त्रोपरोधेन परशास्त्रादवणं कर्त्तुमुचितम् । तथात्वे वा तदुक्तमात्रादिश्राद्धमप्यस्माकं स्यात् । न चैवं त्वयापि दूष्यते । तस्मादनादरणीयमेतत् ।
श्रावसरे पात्रेषु जतशेषदानादिकं करणीयम् । कुतः ? | "तृष्णों पात्रेषु निःक्षिपेत्” - इत्यादि वचनात् । ब्राह्मणभोजनादिकमप्यस्मिन्नेवावसरे कर्त्तव्यम् । न च श्रनुपदेशात् नास्त्येव ब्राह्मणभोजनादिकम् — इति वक्तव्यम् । तस्यास्मत् श्राद्धकल्पादि सिद्धत्वात् । " यो वा तेषां ब्राह्मणानामुच्छिष्टभाक् स्वात्"
For Private and Personal Use Only