________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३८
गोभिलीयं
[४ प्र. २ का.]
कर्माप्रदीपाख्यम् । कथं ज्ञायते ? । अध्येट सम्प्रदाय प्रमिद्धेः । अतएव च्छन्दोगपरिविष्टमित्याख्यायते। भवानपि नाच विप्रतिपद्यते । एवञ्च, अस्माकमेवैष विकल्पः कात्यायनेनोपदिष्टःइत्यकामेनापि वक्तव्यम् । न खल्वस्मात्परिशिष्टे शाखान्तरेषां विधिरुचितोवर्णयितुम । सायं परिशिष्ट प्रकाशः, इत्यात्मानं ख्यापयन् , परिशिष्टञ्च दुव्याख्यातममा समावृण्वन् परीक्षको भवान, इति किमत्र वक्तव्यम् ।
अस्मद् गृह्यकारेण परतः प्राचीनावीतित्वोपदेशात व्यक्तिमग्नो करणहोमे उपवीतित्वं दर्शितम,-इति वर्ण यन् वाचस्पतिरपि वाचायुक्त्यनभिज्ञ एव। परतः प्राचीनावोतित्वोपदेशस्य पुरत उपवीतित्वाभिप्रायकत्वे प्रमाणाभावात् । तस्यानियममात्रपरताया एव परिशिष्टकृता स्पष्टीकृतत्वाच। परिशिष्टवचने सव्यापसव्ययोर्विकल्पः, इति भवानेवाह ।
“परिशिष्टोयं पूर्ववचनं पूर्वपक्षाभिप्रायं, उत्तरवचनन्तु सिद्धान्ताभिप्रायम्, अतएव तत्र सिद्धान्तद्योतनार्थी वाशब्द:"-इति वर्णयता महायशमाऽपि महदयश: प्रकटितम्। कस्मात् ? । वाशब्दस्य विकल्पार्थत्वात्। श्रुति-वैविध्येन विकल्पस्योपपन्नतरत्वाच्च । अपिच । एवं खल्वग्नौकरणहामेऽपि नियमतः प्राचीनावोतित्वे, 'श्रत अई प्राचीनावीतिना'-इति सूत्रणमाचार्यस्थासङ्गतं स्यात् । तस्मादाचार्यविरुद्धोऽयं पक्षः । अलमति प्रमङ्गेन ।
प्रकृतमधुनोच्यते । अनग्मिमता खल्वत्र पियब्राह्मणपाणे अनौ करणहामः करणीयः । तथा चान्वष्टक्यकर्मणि कर्मप्रदीपः ।
For Private and Personal Use Only