________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३६
गोभिलीयं
[४ प्र. २ का.]
इति च मात्स्ये पुराणे । न खल्वस्म च्छाखायां अत्र विशेषः श्रूयते । तस्मादुभयवरसादिकल्पः, दूति परिशिष्टकृतः कात्यायनस्याभिप्रायः। हेतुवन्निगदस्तु न मुख्यार्थः किन्तु स्तुति पर एव,-दूति प्रमाणलक्षणे दर्शितम् । तस्मात, ऊर्द्ध प्राचीनावोतित्वोपदेशात अनौकरण होमे प्राचीनावीतित्वोपवीतित्वयोरनियमः सूत्रकारस्थाभिप्रायोऽस्पष्टः परिशिरकता स्पष्टीकृतः,इति भट्टनारायण शलपाणि रघुनन्दनादिमतमादरणीयम् ।
यच्च केनचिद् वर्णितम् ,-"येषान्तिस्र पाहुतयो यन्ते, येषां चाग्निः पूर्वमिज्यते, वधाकारान्ताश्च मन्त्राः, तद्विषयं प्राचीनावीतित्वम् । येषान्तु वे आहुती, सोमश्च पूर्व हयते, स्वाहाकारान्ताश्च मन्त्राः, तेषामुपवीतित्वम् । 'अथोपवीती सामं पिलमन्तमग्निं कव्यवाहनञ्च यजेत, प्राचीनावीतो चेत् अग्निं पूर्व, खाहास्थाने स्वधापदश्च दत्त्वा जुहोति' इति सूत्रान्तरात्"इति । तदसङ्गतम् । अस्मदृह्ये सोमपूर्वाहुतिदयस्यैव सूत्रणात् । अस्मत् परिशिष्टकारणैव इयोरेव पक्षयोः खहस्तितत्वाच्च । अपिच । अग्न्याद्याहुतित्रयपक्ष एवोपवीतित्वं दृश्यते । तथाच मत्स्य पुराणे,
"अग्नेः सोमयमाभ्याञ्च कुर्यादाप्यायनं बुधः" । इत्यभिधाय,
"यज्ञोपवीती निर्वयं ततः पर्युक्षणादिकम् ।
प्राचीनावीतिना कार्य्यमतः सव्व विजानता" । इत्युक्तम् । श्रादिपदाद्धोम उतः, इति वाचस्पति मिश्राः ।
For Private and Personal Use Only