________________
Shri Mahavir Jain Aradhana Kendra
[४ प्र. २का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
"नाङ्कुर्य्याद्धाममन्त्राणं पृथगादिषु कुत्रचित् । अन्येषाञ्च विष्टानां कालेनाचमनादिना" । इति च । अत्राह । निर्देशसामर्थ्यादेव पूर्व्वीपरत्वे सिद्धे, पूर्व्वम् - इति, उत्तराम् - इति च वचनमनर्थकम् । अथेोच्यते, कारणं वक्तव्यम् । उच्यते । “अग्नये च सोमाय च जुहोति"इत्यध्वर्युशाखादिषु देवताविपर्य्यमः श्रूयते, तन्निरासार्थमाचार्यः “पूर्णीम्” “उत्तराम्” – इत्याह ।
,
दूदमिदानीं मन्दिह्यते । किमयमगौकरणहामः प्राचीनावीतिनैव कर्त्तव्यः, आहे । खिदुपवीतिना, उताहो अनियमेन ? - इति । अनियमेन – इत्याह । कस्मात् ? । इतः परं प्राची - नावीतिमा कृत्येोपदेशात् । इतः परं खल्वाचार्य्यः प्राचीनावीतिना कृत्यमुपदिशन् अत्रामैाकरणहामे प्राचीनावीतित्वोपवीतित्वयोरनियमं दर्शयति । तथाच कर्म्मप्रदीपः ।
“अग्नौकर होमश्च कर्त्तव्य उपवीतिना । प्राङ्मुखेनैव देवेभ्यो जुहोतोति श्रुतिश्रुतेः । अपसव्येन वा कार्यो दक्षिणाभिमुखेन च । निरुप्य हविरन्यस्मा अन्यस्मै न हि हयते” । इति । तथाच श्रूयते । “अग्नीकरणहेामे प्राचीनावोतो भूत्वा"इत्यादि । “स उद्वास्यानो द्वे श्राती जुहोति देवेभ्यः” इति च माध्यन्दिनीये ब्राह्मणे ।
“श्रग्निमान् निर्व्वपेत् पूर्व्वं चरुं वा शस्यमुष्टिभिः । पितृभ्यो निर्व्वपामीति सव्वं दक्षिणतो न्यसेत्” ।
4L 2
६३५
For Private and Personal Use Only