________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९.
गोभिलीयं
[प्र.१० का.]
आचार्येण,-"अष्टका रात्रिदेवता"-इति सूत्रयित्वा, “इति देवता विचाराः" इति सुत्रितं, न देवता विकल्पा:-इति । एतासां देवतानां स्वाभिमतत्वेतु, “नवषट्त्रय इति विकल्प:'इतिवत् “देवताविकल्पाः, इत्येवकुर्यात् । तस्मात,-देवताविचारा एवैते, न पुनरेता देवता भवन्ति । देवतात्वस्माभिरुकैव,-अष्टका रात्रिदेवता, इति । सायमाचार्य्यस्याभिप्रायःइत्ययमम्मदीयः पन्थाः। देवताविचारप्रकारश्च बुद्धिमद्भिरूहनीयः। ग्रन्थगौरवभयादपारम्यतेऽस्माभिः । यच्च मन्त्रलिङ्गमग्न्यादीनामस्ति, न तद्देवताश्रुतिचोदितां रात्रिं वाधितु मोष्टे । दुर्बलं हि लिङ्गं श्रुतेरिति खल्ववाचाम। यथा च, मन्त्रलिङ्गावगतापि देवता तद्धितशिष्टया देवतया वाध्यते, तथैव देवताशब्दशिष्टयापि वाधिष्यते । न्यायस्याविशेषात् । अन्येतु मन्यन्ते,"अन्यतरस्या देवताया अभिसन्धानं न घटते। कुतः ?। मध्यमाष्टकायाम्, अनावग्निः, इति मन्त्रलिङ्ग विरोधात् । तस्मात्, सामामभिमन्धानं कर्नु युक्रम् । अत्रापि यत्र मन्त्रान्तरेण होमः, तत्र होमकाले मन्त्रदेवतामेवाभिध्यायेत् । तयैव तत्राभिध्यातया भक्तिमाहचर्यात् मा अप्येकदा देवता अभिध्याता इष्टदाश्च भवन्ति”-इति ॥ ॥ ३ ॥०॥ कियत्यः पुनरष्टका भवन्ति ?। उच्यते,
चतुरष्टकाहेमन्तः ॥ ४॥
चतस्रोऽष्टका यस्मिन्, सेोऽयं चतुरष्टको हेमन्तः ऋतुविशेषः ।
For Private and Personal Use Only