________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वावलोकन- बुद्धक्षेत्र सन्दर्शन- व्यूहम्
दातव्यः ।
अथ
एकविंशतिदिवसानि मैत्रविहारिणा नियमस्थेन भवितव्यम् । ततः सर्वाभिप्रायं परिपूरयिष्यामि सद्धर्मप्रतिक्षेपकं स्थाप्य । शुचौ प्रदेशे कर्तव्यं देवायतने वा' । भगवान् सा च यथासमागता पर्ष साधुकारमदात् । साधु साधु भगिनि । सुभाषितमिदम् । प्रतिज्ञा बहुगुणसमन्वागता । एवमेव त्वमपि करणीयमनागतेऽध्वनि ।
७५
VI
अथ खलु भीमा महादेवी सुवर्णपुष्पैर्भगवन्तमभ्यर्च्य भगवतश्चरणयोर्निपत्य भगवन्तमतदवोचत् । अहमपि भगवंस्तेषां धर्मभाणकानां धर्मश्रावणिकानां तेषां च लेखकानां तेषां च धारकाणां वाचकानां पूजकानामर्थाय सर्वाशापरिपूरकराणि हिरण्यमणिमुक्ता' भोगैश्वर्यराजत्वदीर्घायुष्कराणि शत्रुवशीकरणानि मन्त्रपदानि दास्यामि । यः कश्चि राजा वा राज्ञी वा भिक्षुभिक्षुण्युपासकोपासिका वा धारयिष्यन्ति सत्करिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति तथागतगुरुगौरवेण प्रतिप्रत्त्या यथोपदिष्टाः प्रतिपत्स्यन्ते तस्याहं भगवन् रक्षिष्यामि परिपालनं करिष्यामि यथोचितं वरं दास्यामि भोगैश्वर्यैरवैकल्यं करिष्यामि विवादयुद्ध डिम्बडमरे जयं करिष्यामि । आयुः संपदमुपसंहरि
For Private and Personal Use Only
'
1. Tib. places the words शुचौ प्रदेशे देवायतने वा before चतुर्दिशे | Aud अष्टशतजप्तेन after नियमस्थेन । 2 Ms. • मुक्ति ० 3 Ms. • राज्यत्वा •