________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४ सर्वतथागताधिष्टान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् सत्त्वेषु इमा एवंरूपा मन्त्रपदा भाषिताः प्रतिज्ञा कृता। शक्ष्यसि त्वमनया एवंरूपया महाकरुणया सर्वसत्त्वाननुत्तरायां सम्यक्संबोधौ प्रतिष्ठिा]पयितुम् । एवमेव त्वयापि करणीयम् ।
अथ शंखिनी महादेवी भगवन्तं नानापुष्पै नागन्धैरभ्यर्च्य प्रदक्षिणीकृत्य पादयोर्निपत्य भगवन्तमेतदवोचत्। अहमपि भगवंस्तथागताधिष्ठानेन प्रतिज्ञां करिष्यामि तथागतशासनचिरस्थित्यर्थम् । तेषां च धर्मभाणकानां धर्मश्रावणिकानां सर्वाशापरिपूरकराणि मन्त्रपदानि दास्यामि । रक्षायै तन्मे भगवान् अनुजानातु। _ नमो नमः सर्वतथागतानाम् । ॐ शंखिनि देवि आगच्छ आगच्छ। तिष्ठ.धने धनजये। वृवृ वृद्धिकरि'। धृ धृ धृतिकरि । 'नानाविविधवेशवस्त्रायुधधारिण' । यु यु आयुष्पालनि । तथागतानां स्मर बोधिचित्तं मा विलम्ब । देहि मे वरम् । शंखिनि खाहा।
इमैर्मन्त्रपदैः स भगवन् कायगतैर्यशोवृद्धिमनुप्राप्स्यति । तेजोवृद्धि भोगवृद्धिम् ऐश्वर्यवृद्धिं दीर्घायुष्कतां शत्रुवशीकरणवृद्धिमनुप्राप्स्यति । अष्टशतजप्तेन यथालाभेन बलिं दत्त्वा चतुर्दिशे धूपं कुन्दुरुकं तथागतस्योदारतरपूजा कर्तव्या । दीपो
1 Tib. वि वि वितकरि
2 Tib. नानावविविध
3 Tib. .विध वशवस्त ध धारिणि
For Private and Personal Use Only