________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् मद्यं चतुर्दिशे क्षेप्तव्यम्। पूर्णपञ्चदश्यामनेनैव विधिना बलिः अन्यानि] च यथालाभेन धूपकर्परकुन्दुरुक'चन्दनम्रक्षं दातव्यम् । सुगन्धतैलेन द्वौ दीपौ दातव्यौ। तत्राहं स्वरूपेणोपतिष्ठामि । यथेप्सितं वरं दास्यामि समाधिलाभमाकाशगमनमन्तर्धानं राजत्वं बल.चक्रवर्तित्वं विद्याधरत्वं निधिवादं धातुवादं परचित्तज्ञानं दीर्घायुष्कत्वम् । सर्वसत्त्वानां मैत्रचित्तेन भवितव्यम् । मानक्रोधामात्सर्यपरिवजितेन स्तौपिक-धार्मिक-सांघिकार्थापहारपरिवर्जितेन भवितव्यम् । तथागतानामभेद्यप्रसादेन [भवितव्यम्] । यदि चाहं भगवन् पञ्चानन्तर्य करिष्यामि त्रिभिःसाधनैर्न समन्वाहेरयं मा चाहं भगवन्ननुत्तरां सम्यक्संबोधिमभिसंबुध्येयं सचे बुद्धे अप्रसादलब्धो भवे यश्च विमतिप्राप्तो यश्च पापमकुशलं कृत्वा न विरतिमनुगृह्णाति क्लेशोपक्लेशचित्तस्तस्याहं चापि दर्शनं दास्यामि लाभमपि करिष्यामि। ____ अथ भगवान् साधुकारमदात् । साधु साधु भगिनि । साधु खलु पुनस्त्वं भगिनि यत्त्वया सर्वसत्त्वानामर्थाय पापसमाचारेषु
1 Ms. कन्दुरक ; 'Tib. गिरणार | 2 Ms. स्मृक्ष 3 See infra. p. 77 4 Ms. omta: 5 Ms 1742
6 Ms. स्थोपिक
r Tib. omits पञ्च, of. सब मामाका । 8 Ms. क्लेशुप०
9 Ms. 71 greife but the Tib. omits 71 cf. 2 5572195957 མཐོང་བ་ སྩལ་བར་ བགྱི་ཞིང་ ཐོབ་པར་ ཡང་ བགྱི་ ལགས་སོ། །
10 Ms. लाभं करिष्यामि ।
For Private and Personal Use Only