________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८
सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् भोगैश्वर्यलम्भं बुद्धक्षेत्रोपपत्तिं तेन शुक्लपक्षे शुचिना सुनातगावेण भूत्वा आर्याष्टांगोपवासोपवसितैरष्टम्यामारभ्य शुचौ प्रदेशे बुद्धाधिष्ठिते गन्धपुष्पैर्ध्वजपताकैः पूर्णकुम्भैरभ्यर्च्य स पृथिवीप्रदेशः स च धर्मभाणकः शुचिः सुस्नातगात्रः श्वेतवस्त्रप्रावृतो नानापुष्पमाल्यगन्धैरभ्यर्च्य लिखापयितव्यः सर्वसत्त्वासाधारणानि कुशलमूलानि कृत्वा सर्वसत्त्वमैत्रचित्तेन दयाचित्तेन करुणाचित्तेन तथागतगुरुगौरवं चित्तमुपस्थाप्य तेन दिने दिने लिखता ताव लिखे यावदर्भदिवसम् । अष्टम्यामारभ्य यावत् पञ्चदशीं दिने दिने सैव पूजा कर्तव्या । ततोऽनेनैव विधिना लिखितमात्रेण पञ्चानन्तर्याणि कर्माणि सर्वपापानि चास्य क्षयं यास्यन्ति । कुशलैर्धर्मैर्विवर्धिष्यते । उत्तप्तवीर्यो भविष्यति । सर्वधर्मेषु काय सुखमनुप्राप्स्यति । तनू'भविष्यन्ति राग-द्वेष-मोह-मान-क्रोधाः । तेन लिखापयित्वा पूर्वमुखीं सधातुकां तथागतप्रतिमामवलोकितेश्वरप्रतिमां च सधातुकां स्थाप्य सधातुके चैतायतने पुष्पधूपगन्धैर्दीपश्च उदारतरा पूजा कर्तव्या 1 अष्टम्यामारभ्य यावत् पञ्चदशीं सर्वसत्त्वमहाकरुणाचित्तेन भवि - तव्यम् । 'शुचिशुक्लभोजिना आर्याष्टांगोपवासोपवसितेन सुहृत्सहायकेन मानक्रोधमात्सर्यपरिवर्जितेन दिने दिने उदारतरां पूजां कृत्वा त्रिसन्ध्यं' जापः अष्टशतिको दातव्यः । दीपधूपपुष्पगन्धादि दत्त्वा सुमनःपुष्पाष्टशतैश्च आर्यावलोकितेश्वरप्रतिमा त्रिसन्ध्यमाहर्तव्या ।
3
1 Ms. तन्वी
3 Tib. has only মাसहायक
4 Ms. तृसन्ध्यं ; Tib.
Acharya Shri Kailassagarsuri Gyanmandir
2 Ms. शुच
དུས་གསུམ་དྭ་བཟླས་བརྗོད །
For Private and Personal Use Only