SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् _ नमः सर्वतथागतानां सर्वाशापरिपूरकराणाम् । नम आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य महाकारुणिकस्य। तद्यथा ह ह ह ह। मम मम । घिरि धिरि। शान्ते प्रशान्ते सर्वपापक्षयंकरे । अवलोकय कारुणिक बोधिचित्तं मनसि कुरु । व्यवलोकय मां स्मर स्मर यत् त्वया पूर्वं सत्याधिष्ठानं कृतम् । तेन सत्येन सर्वाशां मे परिपूरय । बुदृक्षेत्र परिशोधय। मा मे कश्चिद् विहेठं करोतु । बुद्धाधिष्ठानेन वाहा। तद्यथा तेजे तेजे महातेजे। यन्मम कायदुश्चरितं वाग्दुश्चरितं मनोदुश्वरितं दारिद्रयं वा तन्मे क्षपय। आलोकय विलोकय । तथा. गतदर्शनं चाहमभिकांक्षामि बोधिसत्त्वदर्शनम् । धुधुप ददस्व मे दर्शनम् । सर्वे मे कुशला अभिवर्धन्तु । नमः सर्वतथागतानाम्। नमः अवलोकितेश्वरस्य। स्मर प्रतिज्ञा महासत्त्वाः। सिध्यन्तु मन्त्रपदाः स्वाहा। अस्यां धारण्यां भाष्यमाणायां महापृथिवीकंपोऽभूत् महा. किलकिलाशब्दः। दिव्यं च पुष्पवर्षमभिप्रवर्षन् [सर्वः सपर्षत् साधुकारमदात् । साधु साधु सुभाषितमिदं महासत्त्वेन सर्वसत्त्वानां त्राणार्थं सर्वाशापरिपूरकरम् । रक्ष सर्वभयेभ्यः सर्वकर्मक्षयंकर मरणदुःस्वप्नकान्तारप्रशमन । वयमपि सर्वे भूत्वा धारयिष्यामः सत्करिष्यामः । अवलोकितेश्वर आह। यः कश्चित् कुलपुत्र इमान् गुणानभिकांक्षाते । यथा तथागतेन परिकीर्तितं व्याकरणं मम कांक्षात] । ममापि सम्मुखदर्शनं समाधिलम्भं बुद्धबोधिसत्त्वदर्शनं 1 Tib. वि. हरि. 2 Ms. ०कराणि For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy