________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् ६.१ पर्यायस्य पूजनसत्करणलिखनलेखापनवाचनोद'ग्रहणीयः पुण्याभिसंस्कारः परेभ्यः संप्रकाशनीयः पुण्याभिसंस्कारः तेषां च धर्मभाणकानां पूजनसत्करणपुण्याभिसंस्कारः तस्यायं पूर्विमकः पूण्याभिसंस्कारः शततमामपि कलां नोपैति । यश्च मया कुलपुत्र धर्मो भाषितः पर्यावाप्तः तं सर्वं सत्करे गुरुकरे मानये पूजये सत्कृत्य लिखये लिखापये। यश्चायं धर्मपर्यायः लिखे वाचये पूजये संप्रकाशये बहुतरम् इतः पुण्याभिसंस्कारं परिग्रहीष्यति । ततस्तथागतो व्याकरोत्यनुत्तरायां सम्यकसंबोधौ। तत् कस्य हेतोः। एवंरूपस्य दुष्करं धर्मपर्यायस्य श्रवणोद्ग्रहण-धारणपूजन-लिखनम् । ते च सत्त्वाः पापसमाचाराः खाद्यपेयहास्यनाट्याभिरता अशुभे शुभसंज्ञिनः कामक्रोधव्यापादबहुला असुखे सुखसंज्ञिनः प्रहाराकोशतर्जनताडनाभिरता न ज्ञास्यन्ति न मनसि करिष्यन्ति। ते ततः पापकर्मनिदानाज्ञाना' अकल्याणमित्रपरिगृहीता जराव्याधिशोकमृत्युपरिपीडिता मरणकाले परितप्यंन्ते । श्मशानसदृशमंचावलंव्यमानं परस्परं पश्यन्ति न च कुशलचित्तमुत्पादयिष्यन्ति नाभेद्यप्रसादम्। ते ततश्च्यवित्वा पुनरपि दुःखानि प्रत्यनुभविष्यन्ति। नायं कुलपुत्राकृतकुशलमूलैस्तथा
མི་
1 Ms. ० ग्रहण्या
༄༅ Tib. སྡིག་པའི་ ལས་ཀྱི་གཞི་དེ་དད ། མི་ཤེས་པ་དེས་ དགེ་པའི་ བཤས་ གཉེན གིས་ ཡོངས་སུ་ཟིན་ ཅིང།
____ 3 Ms. ०पलं व्यमानं
For Private and Personal Use Only