________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
___ सर्वतथागताधिष्टान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् गतादर्शाविनो' अव्याकरणप्राप्तैः श्रोतुं मानयितुं पूजयितुम् उद्ग्रहीतुं न लिखितुं न लिखापयितुं न श्रद्दधातुं न च तान् धर्मभाणकान् सत्कर्तुं मानयितुं पूजयितुम् अपि न शक्यते ।] तथागतकृत्यं कुलपुत्र तत्र विषये भविष्यति यत्रायं धर्मपर्यायः प्रचरिष्यति। अथ सा यथा समागता पर्षत् साधुकारमदात् । साधु साधु भगवन् । वयमपि भगवन् धर्मभाणकं धर्मश्रावणिकं तथागतकृत्येन सत्करिष्यामः गुरूकरिष्यामः मानयिष्यामः सर्वसुखोपधानं चास्योपसंहरिष्यामः । अयं च धर्मपर्यायं वैस्तरिकीकरिष्यामः रक्षिष्यामः येनायं धर्मपर्यायश्विरस्थितिको भविष्यति । अथ भगवांस्तस्यां वेलायां यथा समागतां पर्षदमवलोक्यैवमाहुः । साधु साधु कुलपुत्र । अहो एवमपि युष्माकं करणीयम् । कायचित्त. निरपेक्ष त्वा सर्वोपप्लवन-परिभवन-परिभाषण-तर्जन-प्रहाराकोशलभ्यमानम् [अपि] इमं धर्मपर्यायः श्रावयितव्यो लिखितव्यो वाचयितव्यः। तं च धर्मभाणकं धर्मश्रावणिकं सर्वसुखोपधानेन चोपस्थातव्यः। स च विषयः स च द्वीपः स च नगरो रक्षितव्यः सर्वभयोपद्रवोपसर्गोपायासेभ्यः। तस्य च कुलपुत्रस्य कुलदुहितुर्वा सततसमितं समन्वाहर्तव्यम्। अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत।
1 for दर्शाविभिः। 2 Tib. मागुर सी बाहो। 3 Ms. puts the verbs in singular nuinber.
For Private and Personal Use Only