________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६० सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् धिष्ठानं सर्वबोधिसत्त्वानाम् अधिष्ठितश्च सर्वसमाधिं सर्वधारणीमुखानि प्रतिलभते । सर्वसत्त्वानां चित्तचैतसिकसमिजितप्रसारितानि प्रजानाति । देवानां नागानां मनुष्याणां यक्षाणां गन्धर्वाणां प्रेतानां तिर्यग्योनिगतानां यामलौकिकानाम् अमी सत्त्वाः पुण्योफ्गाः सुकृतकरा बुद्धधर्मसंघेषु प्रसादं प्रतिलभन्ते । अमी' नरकगामिदुष्कृतगामिपापकारिणः। तेषां सत्त्वानां पापदृष्टिगतानां धर्म देशयति सर्वपापेभ्यो निवारयति । बुद्धबोधौ प्रतिष्ठापयति सर्वाभिप्रायं परिपूरयति। ईर्ष्या-मान-क्रोध-मातसर्य विनोदयति । ते च सत्त्वा बुद्धधर्मसंघेषु प्रसादं प्रतिलभ्य बुद्धक्षेत्रेषूपपद्यन्ते। न जातु दु:खमनुभवन्ति न दौर्मनस्यम् । तेनायं कुलपुत्र सर्वतथागताधिष्ठानसत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहो नाम समाधिरुच्यते। यं श्रुत्वा नियतावैवर्तिकभूमि प्रतिलभन्ते।
[स] आह। केनार्थेन भगवंस्तेषां कुलपुत्राणां व्याकरणं भवति । कियत्तेषां पुण्यस्कन्धं भवति। किं दुष्करचर्या । दुष्करं च भगवन् अर्हत्त्वं प्रागेवानुत्तरा सम्यक्संबोधिः। भगवानाह । यश्च मया कुलपुत्र प्रथमचित्तोत्पादमुपादाय दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता परिपूरिता यश्च शिरःकर चरणनयनोत्तमांगप्रियपुत्रभार्यादुहितृदासदासीपरित्यागः कृतः यश्वास्य धर्म
1
Ms.
अयं
2 Ms .करण
For Private and Personal Use Only