________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४ सर्वतथागताधिष्ठान सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् श्वास्य रक्षिष्यन्ति। मरणकाले चास्य बुद्धदर्शनं बोधिसत्त्वदर्शन भविष्यति। न ईर्ष्यालुको न विक्षेपचित्तं कालं करिष्यति । यावच्च्युतः सुखावत्यां लोकधातावुपपद्यते व्याकृतास्ते मया कुलपुत्र संमुखव्याकरणेन । दृष्टोऽहं तैः सत्कृतो मानितः । न तैः संशयमुत्पादयितव्यम् । बोधौ ‘य इमं धर्मपर्यायं धारयिष्यन्ति सत्कृत्य लिखिष्यन्ति लिखापयिष्यन्ति वाचयिष्यन्ति पूजयिष्यन्ति उद्ग्रहीष्यन्ति नामधेयं च श्रोष्यन्ति । बोधिसत्त्व इति स मनसि कृत्वा सत्कर्तव्यः। येनास्य पूर्वकर्मविपाकेनास्य रूपवैकल्यं भोगवैकल्यं बुद्धिवैकल्यं परिभाष्यं च प्रियविप्रयोगं च राज्यक्षोभं च ते अस्य समाधेरनुभावेन श्रवणेन केचिच्छीर्षरोगेण केचिद्भक्तच्छेदेन केचित् कुचेलाभिधारणेन केचित् कायचित्तपीडेन केचित् दुःखसंस्पर्शशय्याकल्पनेन केचित् परिभाष्येण सर्वं तत् कर्मावरणं क्षयं यास्यन्ति । तेन चवं चित्तमुत्पादयितव्यं पूर्वं मया संसारे संसरद्भिः पापमकुशलं सत्त्वेषु नानाप्रकारमुपचितं तं प्रतिदेशयामि आविष्करोमि न प्रतिच्छादयामि। बुद्धे धर्मे संघे अभेद्यप्रसादचित्तमुत्पादयि. तव्यम् । ये च तस्य कुलपुत्रस्य कुलदुहितुर्वा छेदभोगफलं संवर्त
_1 Ms. योऽयं
2 Tib. omits the words from योऽयं up to श्रोष्यन्ति and puts there གང་དག་རྣ་ལམ་དུ་ གྲག་པར་གྱུར་པ་དེ་དག་ ཀྱང་ བྱང་ཆུབ་ སེམས་ དཔའ་ पोदार को II मझेड गार पुरे। ये खप्ने दृष्टा भविष्यन्ति तेऽपि बोधिसत्त्व इति मनसिकृत्वा।
3 Ms. ०सत्त्वोपि __4 But Tib. मा । 5 Tib ला सा सुगर | =Sans. भोगफलछेदं
For Private and Personal Use Only