________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्टान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम्
५५ नीयं कर्मावरणं भविष्यति बुद्धे वा धर्मे वा संधे वा श्रावकप्रत्येकबुद्धे वा मातापितृभिर्वा' पाप कर्मकृतमुपचितं भविष्यति तत् सर्वं परि. क्षयं यास्यति। महैश्वर्यसमृद्धो भविष्यति। ये च तस्य कुलपुलस्य च कुलदुहितुर्वा दुःखनारकवेदनीयं कर्मावरणं भविष्यति प्रियविप्रयोगसंवर्तनीयं जात्यन्धसंवर्तनीयं स्त्रीसंवर्तनीयं द्विव्यंजन. संवर्तनीयं ईर्ष्यामानक्रोधवशेन यमलोकप्रेततिर्यग्योनिसंवर्तनीयं तत् सर्वं परिक्षयं यास्यति । एवं कुलपुत्र सर्वगुणाकरोऽयं समाधेः । ___ अस्ति कुलपुत्रास्य धर्मपर्यायस्य चिरस्थितिकराः। तेषां च कुलपुत्राणां कुलदुहितृणां रक्षावरणगुप्तानि। सर्वेषां गुणानां सर्वशापरिपूरकराणि महाभोगैश्वर्यसुखकराणि 'सर्वचिन्तितप्रार्थितसमृद्धिकराणि सर्वकर्मक्षयंकराणि सर्वाकालमृत्युदुःस्वप्नसर्वव्याधिप्रशमनकराणि सर्वयुद्धजयंकराणि आयुर्वर्णबलवीर्यस्थामकराणि सर्वयक्षभूतमनुष्यवशंकराणि सर्वञ्चरविषादकप्रशमनकराणि यावद् - व्याकरणप्रतिलंभकराणि धारणीमन्त्रपदानि यानि श्रुत्वा धारित्वा वाचित्वा सत्करित्वा लिखित्वा लिखापयित्वा गुप्तये। स ते कुलपुत्रा वा कुलदुहितरश्च सर्वानेतान् गुणान् प्रतिलभन्ते। अथ तस्मिन् समये इयं महापृथिवी षड्विकारमकंपत। सा च यथा समागता पर्षत तथागतं पुष्पधूपगन्धमाल्यदुष्ययुगैः संच्छाद्य साधुकारमदात् । साधु साधु भगवन् कतमानि तानि मन्त्रपदानि ।
1 Tib. अशा या 2 Ms. चित्तं 3 Tib. गढ माया मार | Ms. दुव्यञ्जन
4 Tib. शम
For Private and Personal Use Only