________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वालोकन-बुद्धक्षेत्रसन्दर्शन व्यूहम् ५३ सत्त्वैर्वन्दनीयाः स्मृतिमन्तः प्रज्ञावन्तः बुद्धे धम संघे अभेद्य'प्रसादेन समन्वागता धृतिमन्तः आयुर्वर्णतेजोबलस्थामवन्तः सर्वाकारवरोपेताः समन्वागताः। न च कदाचित् प्रियविप्रयोगं न प्रियव्यसनं संवृत्तम् । एवं कुलपुत्र बहुगुणससन्वागतास्ते कुलपुत्रा वा कुलदुहितरश्च भविष्यन्ति। यदा सद्धर्मपर्यायं पंचमण्डलेन प्रणिपत्य पुष्पधूपगन्धमाल्यविलेपनच्छत्रध्वजपताकैः समलंकृत्य नमो बुद्धायेति कृत्वा नमस्करिष्यन्ति साधुकारं दास्यन्ति धारयिष्यन्ति वाचयिष्यन्ति वाचापयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति परमगौरवं चित्तमुत्पाद्य तस्य धर्मभाणकस्यान्तिके ते दृष्ट एव धर्मे सर्वसगुणसमन्वागता भविष्यन्ति अभिरूपाः प्रासादिका दर्शनीया विगतव्याधयो दीर्घायुष्काः स्थिरबुद्धयः स्मृतिमन्तः धृतिमन्तः सर्वराजानां सर्वराज्ञीनां राजपुत्रामात्यानां सर्वशत्रणां सर्वसत्त्वानां चामिनन्दनीया भविष्यन्ति वन्दनीयाः सत्करणीयाः। प्रभूतवित्तोपकरणा भविष्यन्ति। चन्दनगन्धः चास्य मुखात प्रवास्यति। नीलोत्पलसदृशनेत्रो भविष्यति । रात्रिन्दिवं चास्य बुद्धबोधिसत्त्वदर्शनं भविष्यति। सर्वावरणं चास्य क्षयं यास्यन्ति पंचानन्तर्यप्रभृतयः कृत्वा । देवता
1 Ms. भेद्य ; lib शेरमा Usually the expression is अवेत्य प्रसाद-N I' 5541 Pali aveccappasida.
2 Tib. TRA =ऋद्धिवन्तः 3 'Tib. omits परमगौरवं चित्तमुत्पाद्य तस्य धर्मभाणकस्यान्तिके । 4 Following the ms., अस्य has been retained it should be in the plural.
5
Tib. omits it.
For Private and Personal Use Only