________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्वतथागताधिष्ठान-सत्त्वावलोकन- बुद्धक्षेत्र सन्दर्शन- व्यूहम्
Acharya Shri Kailassagarsuri Gyanmandir
I
4
अथ आर्यावलोकिश्वरो बोधिसत्त्वो महासत्त्वो दशदिशमव लोक्य 'गङ्गानदीवालुकासमास्तथागतकोटीर्ममनसि कुर्वन् येन भगवांस्तेनांजलिं प्रणम्य त्रिः प्रदक्षिणीकृत्य पंचमण्डलेन प्रणिपत्य भगवन्तमेतदवोचत् । सन्ति भगवन् सत्त्वाः पश्चिमे काले भविष्यन्ति जराव्याधिशोकमृत्यु [दुःख]'कालमृत्युपरिपीडिताः कृशा दुर्वर्णा अल्पायुष्काः परीत्तभोगा अपरिभावितकायास्ते परस्प राणि मात्सर्यदौः शील्यचित्ततया घातयिष्यन्ति परस्पराणि धनभोगेवर्याण्यापहरिष्यन्ति' हास्य लास्यनाट्यक्रीडाभिरताः अनित्ये नित्यसंज्ञिनः अशुभे शुभसंज्ञिनः । ते तद्धेतौ तन्निदाना सत्त्वा नानाप्रकारैर्विह[ग]नरकतिर्यग्योनियमलोकेषु चोपपतस्यन्ते । तत् तेषामहं भगवन् अर्थाय हिताय सर्वाशापरिपूर्णार्थं यावत् तथागतज्ञाना - हरणार्थं युद्धक्षेत्रोपपत्तये सर्वपापनिवारणार्थं तथागतमध्येष्यामि । भाषख भगवन् भाषस्व सुगतो नास्ति तथागतस्य तज्ज्ञानं यदविदितम् अदृष्टम् अश्रुतम् अविज्ञातमेव । बहवो भगवन् बोधिसत्त्वभिक्षु भिक्षुण्युपासकोपासिका देवनागा यक्षगन्धर्वासुरकिन्नराश्च समागता धर्मसांकथ्यं श्रोतुकामाः पूर्वबुद्धपर्युपासिताः सप्रज्ञा जाताः ते निराशीभूता प्रक्रमिष्यन्ति ।
1 Ms. • समानि
3 Tib. མྱ་ ངན་ གྱིས་ ནོན་ པར་ གྱར་བ །
2 Ms. जलयः
अथ ते सर्वे यथा समागताः पर्षत्पंचमण्डलेन प्रणिपत्य एककण्ठेन एवमाहुः । साधु भगवन् भाषस्व भगवन् भाषस्व सुगतः ।
For Private and Personal Use Only
५१
4 Ms. • पहृष्यन्ति
-