________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५० सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् देवभूतास्ते सर्वदेवसुख संप्रहाय बुद्धानुस्मृति कृत्वा धर्मश्रवणाय येन भगवान् तेन उपसंक्रान्ताः। ये सत्त्वा मनुष्यभूतास्ते च मनुष्यसुख परित्यज्य धर्मश्रवणकामाय येन भगवांस्तेन उपसंक्रान्ताः। ये सत्वा नागयक्षराक्षसप्रेतपिशाचभूतास्ते बुद्धानुस्मृति प्राप्य सर्वसत्त्वेषु मैत्रचित्ता भूत्वा कायचित्तसुख लब्धा धर्मश्रवणाय येन भगवान् तेनोपसंक्रान्ताः। ये सत्त्वा यमलोके अन्धतमिस्रायां जातास्तेऽपि बुद्धानुभावेन एकक्षण स्मृति लब्धा परस्पर संजानते स्म । ते महातमित्राभ्यः परिमुक्ता बभूवुः । सर्वे सत्वाः परस्पर मैत्रचित्ता बभूवुः । तेषामुपलेशाः क्षीणा अभूवन्। तेन खलु समयेन महापृथिवी षड्विकार' प्रकम्पते उन्नमति अवनमति स्म। अथ तस्यां पर्षदि मंजुश्रीकुमारभूतः सन्निषण्णः सन् बोधिसत्त्वं महासत्त्वमार्यावलोकितेश्वरमेतदवोचत्। कुलपुत्र महाबोधिसत्त्वपर्षदि अवभासितायां महापर्षदः पूर्वनिमित्तं परिस्फुटम्। अनेकयोधिसत्त्वकोटिनियुतशतसहस्राणां च व्याकरण प्रकटितम्। धर्ममहावाक्यस्य पूर्वनिमित्तं संदृश्यते। कुलपुत्र अनेकानां च बोधिसत्त्वकोटिनियुतशतसहस्राणां सर्वाशापरिपूरि महाज्ञानप्रतिलम्भो भविष्यति । तत् कुलपुत्र सत्त्वानां कारुण्यमुत्पाद्य हिताय सुखाय यावदनुत्तरस्यां सम्यकसंबोधौ प्रतिष्ठापनाय तथागतं परिपृच्छ ।
सन्ति कुलपुत्र सत्त्वाः पश्चिमे काले पश्चिमे समये भविष्यन्ति पापकारिणो दरिद्राः कृशा "दुर्वर्णशरीरा जराव्याधिपरिपीडिताः परीत्तभोगा अपरिभावितकाया अल्पायुष्का अल्पबुद्धयो रागद्वेषमोहपरिपीडिताः। तेषामर्थाय कुलपुत्र तथागतमध्येषय धर्मदेशनायै तत् ते कृतं भविष्यति दार्घरात सत्त्वाना[मर्थाय] हिताय सुखाय सर्वव्याधिप्रशमनाय सम्पापनिवारणाय सर्वपापप्रशमनाय सर्वशापरिपूरणार्थं यावदनुत्तरपरिनिर्वाणार्थम्।।
1 This portion has been restored from the Tibetan. See Kanjir, mDo, Kha, folios 395 pp. ; Asiatic Researches, XX p. 425. 2 Tib. BIकुर-दुब ला
For Private and Personal Use Only