SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-व्यूहम् एवं मया श्रुतमेकस्मिन् समये पोतलकपर्वते आर्यावलोकितेश्वरायतने दिव्य. मणिरत्नश्रीइन्द्रनीलमये पुष्पसंस्तृते देवसिंहासने भगवान् साधं महता' भिक्षुसङ्घन पञ्चमात्र भिक्षुशतैः सर्वैरहद्भिः क्षीणास्रवैश्वेतोवशिताप्राप्तः. सद्धर्मपारंगतैश्च साधं बोधिसत्त्वैः सर्वैः महाकरुणाज्ञानप्राप्तैः सर्वैः एकजातिप्रतिबद्धैर्द्विजातिभ्यां च त्रिजातिभिर्दशजातिभिविंशतिजातिभिस्त्रिंशज्जातिभिः शतजातिभिर्वा प्रतिबद्धः सर्वैः अष्टफलप्राप्तैर्दशभूमिस्थितैः तद् यथा आर्यावलोकितेश्वरेण मंजुधिया विमलकेतुना रत्नश्रिया वज्रकेतुना विमलप्रभेण चन्दनेन अमृतकेतुना एवंप्रमुखैः सप्तशतैः बोधिसत्त्वैः सार्धम् उपासकोपासिकाभिः सर्वैश्च व्याकृतैः समाधिप्राप्तैः नानालोकधातुभिः सन्निपतितैः पञ्चसहस्रः सर्वैः गन्धर्वशतसहस्रः पूर्वबुद्धपर्युपासितैः तथागतप्रातिहार्यदृष्टैः सार्धं सर्वाभिः महायक्षिणीभिः बोधिसत्त्वज्ञानप्राप्ताभिः व्याकरणप्राप्ताभिरवैवर्तिकाभिः अनौपम्यया विमलप्रभया च प्रभावत्या भीमश्रिया यक्षिण्या च एवंप्रमुखाभिरशीत्या महायक्षिणीभिः। शतक्रतुब्रह्मवैश्रवण धृतराष्ट्रविरूढकविरूपाक्षमणिभद्रपुत्रपूर्णभद्राः एतैश्च लोकपालैः साधं निषण्णोऽभूत् । अथ तैः सर्वैस्तथागतं सिंहासननिषण्ण ज्ञात्वा स्वकस्वकैः कुशलमूलैस्तथागत दिव्यालंकारवस्त्रपुष्पमाल्यधूपविलेपनवाद्यशब्देन मानितः पूजितः शतसहस्रकोटिशः प्रदक्षिणीकृत्य अर्चितश्च । तेन खलु पुनः समयेन भगवान् सर्वसत्त्वमहाकरुणाज्ञानस्थित नाम समाधि समापन्नोऽभूत्। तेन समाधिधारणवलेन त्रिसाहनमहासाहवलोकधातवः आभया अवभासिता अभूवन्। सर्वरूपाणि स्फुटितानि। ये च सत्त्वा जात्यन्धाः चक्षुषा रूपाणि पश्यन्ति स्म। वधिराः श्रोत्रण शब्दान् शृण्वन्ति स्म। रोगस्पृष्टा विगतरोगा भवन्ति स्म। नग्नाश्च वस्त्रावृता बभूवुः। उन्मत्ताः स्मृति प्रतिलभन्ते स्म। हीनकायाः परिपूर्णेन्द्रिया बभूवुः। दरिद्रा धनानि प्रतिलभन्ते स्म। सत्त्वानां यः खलु धनवस्तुभोगविहीन आसीत् स धनवस्तुभोगसम्पन्नोऽभूत्। सर्वसत्त्वाः सर्वसुखसमर्पिताः सर्वाशापरिपूर्णा अभूवन् । त्रिसाहस्रमहासाहस्रलोकधातौ ये केचित् सत्त्वा अनुशासनधर्मश्रवणाय येन भगवान् तेनांजलिं प्रणम्य उपसंक्रान्ताः। ये सत्त्वाः For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy